Thursday, March 8, 2012

जगत्गुरुः समासः

एषः भागः “महा पेरियवाळ – दरिसण अनुभवङगळ” पुस्तकात् ब्रह्मश्री रामकृष्ण दीक्षितस्य समर्पनात् उद्धृतः तमिळतः अनुवादतः च ।

          १९३३ तमे वषे काञ्ची शंकराचार्यः चन्द्रशेकरेन्द्र सरस्वती स्वामिनस्य काशी यात्रायाम् एतत् सम्भवम् अभवत् । काशी महाराजः आचार्यस्य कृते प्रासादे स्वागत  कार्यक्रमं आयोजितवान् । काशी नगरस्य सर्वे प्रमुखाः तत्र आसन् । बहवः पण्डिताः अपि आचार्यस्य स्वागतनाय तत्र आगच्छन् । एतेषु पण्डितेषु केचन असूयाः अभवन् । “एषः किमर्थं जगद्गुरुः पदं  स्व नामस्य पूर्वं योजितः । तस्य परीक्षा करणीय ” इति ते चिन्तितवन्तः । आचार्यः सभायाम् आगत्य उपविष्टवान् । एकः पण्डितः तदा अपृच्छत् -

               “कः जगद्गुरुः ?” । 
               “अहम् एव” इति आचार्यः उक्तवान् । 
               “भवान् एव जगतां गुरुः वा?” इति सः पण्डितः पुनः अपृच्छत् ।
               “जगतां गुरु न । जगति प्रपद्यमानाः सर्वे मम गुरवः” इति आचार्यः उक्तवान् । 

         
एतत् श्रुत्वा सभायां सर्वे पण्डिताः स्तंभिताः अभवन् । प्रासादस्य भित्यां  
पारावतानां कृते बिलानि निर्मितानि आसन् । तेषु बिलेषु निर्मितान् नीडान् दर्शयित्वा आचार्यः पण्डितान् अपृच्छत् -
               “किमिदम् ?” । 
               “नीडाः” ।
               “केन निर्मितम् ?” । 
               “चटकैः” ।


हस्तपादैः विना चटकाः नीडाः निर्मायन्ति । अस्मभ्यं हस्तपादाः सन्ति । तथापि चटकाः इव नीडाः निर्मातुं न शक्नुमः । चटकेषु एका क्रिया शक्ति अस्ति । सा मयि नास्ति । अतः चटकः मम गुरुः” इति उक्त्वा आचार्यः नंरतया चटकं हस्ताभ्यां अवन्दत ।

वदतु संस्कृतं नित्यं |  
कैलाशः