सम्यक् कृतम् अस्ति एतत् चलचित्रम् |
नाति नाटकीयम् नाति घोरं - यथोचितं अस्ति - लघु प्रेम कथा |
एक: युवक: तस्य भगिन्या: विवाहस्य अनुकूलतया: कारणत: स्वीय विवाहार्थं कोडगु प्रान्तं गच्छति |
तत्र स: एकां सुन्दरीं पश्यति | तस्यां अनुरक्त: भवति | पश्चात् सा तावत् न भवति यावत् स: चिन्तितवान् |
तस्या: निज स्वरूपम् नाम किं, एतयो: प्रेम कथा साफल्यम् उपैति न वा इति शेष चित्रस्य कथा वस्तू |
चित्रणं कोडगु प्रदेशे कृतं, नैसर्गिक दृश्यावल्य: मनोहरा: |
नेपथ्य संगीतं नाति मधुरं किन्तु सुश्राव्यं अस्ति | द्वे गीते मधुरे स्त: |
नायक: नूतन: सन् अपि सम्यक् अभिनयं कृतवान् |
नायिका सम्यक् दृश्यते, किन्तु तया अभिनय क्षेत्रे इतोऽपि परिश्रम: करणीय: |
मध्ये मध्ये कवन वाचनं समयोचितं श्रूयते |
आहत्य लघु मनोरञ्जनाय समीचीनं चलचित्रं अस्ति " सिम्पल्लाग् ओन्द् लव् स्ठोरी "
वदतु संस्कृतं नित्यं
नरसिंह: |