Friday, April 26, 2013

कन्नड चलचित्रं " सिम्पल्लाग् ओन्द् लव् स्ठोरी "

कन्नड चलचित्रं  "  सिम्पल्लाग् ओन्द् लव्  स्ठोरी " 

सम्यक्   कृतम् अस्ति  एतत् चलचित्रम्  |
नाति नाटकीयम्  नाति घोरं -   यथोचितं अस्ति - लघु प्रेम कथा |

एक: युवक: तस्य भगिन्या: विवाहस्य अनुकूलतया: कारणत:   स्वीय विवाहार्थं कोडगु  प्रान्तं गच्छति |
तत्र स: एकां सुन्दरीं पश्यति |  तस्यां अनुरक्त: भवति |  पश्चात्  सा तावत् न भवति यावत् स: चिन्तितवान्  |
तस्या: निज स्वरूपम् नाम किं, एतयो: प्रेम कथा साफल्यम् उपैति न वा इति शेष चित्रस्य कथा वस्तू  |

चित्रणं  कोडगु प्रदेशे कृतं, नैसर्गिक दृश्यावल्य: मनोहरा: |
नेपथ्य संगीतं   नाति मधुरं किन्तु सुश्राव्यं अस्ति |  द्वे गीते मधुरे स्त: |
नायक: नूतन: सन्  अपि सम्यक् अभिनयं कृतवान् |
नायिका सम्यक् दृश्यते, किन्तु तया अभिनय क्षेत्रे इतोऽपि परिश्रम: करणीय: |

मध्ये मध्ये कवन वाचनं समयोचितं  श्रूयते |
आहत्य लघु मनोरञ्जनाय  समीचीनं चलचित्रं  अस्ति  " सिम्पल्लाग् ओन्द् लव्  स्ठोरी "

वदतु संस्कृतं नित्यं 
नरसिंह: |

1 comment:

  1. अहो, धिङ् मां कन्नडभाषानभिज्ञं तमिलनाडुराज्यनिवासिनम् । कथं वा पारयेयं चलचित्रमदः समीक्षितुं समास्वदितुं वा ?

    -आयुर्वेदनारायणनामान्तरसङ्केतितः
    डा़. पी. नारायणन्
    नागर्कोविल् (नागमन्दिरनगरी)

    ReplyDelete