Tuesday, August 14, 2012

स्वातन्त्र्य उत्सव:

|| शक १९३४, नन्दन संवत्सर, श्रावण मास:, कृष्ण त्रयोदशी ||

 ॐ नमस्ते, 
अद्य भारतस्य ६६ तम स्वातन्त्र्य उत्सव: ||
शालीवाहन शक १८६९ तमे वर्षे अधिक-श्रावण मासे कृष्ण पक्षे चतुर्दश्यां अस्माकं राष्ट्र: स्वातन्त्र्यं प्राप्त: |
ईदृश कालात् परम् अपि अस्माकं राष्ट्रे सामान्य-भाषा रूपेण  भारतीय भाषा का अपि  न प्रचलते इति विपर्यास: ||
वयं सर्वे आङ्ग्ल भाषां एव सामान्य-भाषा इति स्वीकृतवन्त: | एष: अस्मान् चिन्तयितुं प्रेरयति यत् - "स्वातन्त्र्यं" इति उक्ते किं इति ||
इत: परम् वा संस्कृतं अस्माकं राष्ट्र भाषा भवेत् इति आशयेम |



ओल्य्म्पिक्स क्रीडायां भारत राष्ट्र: ६ पदकान जेत्वा आगत: इति गर्व: अस्माकं अद्य |
अग्रे इतोऽपि अधिकान पदकान जयेम इति आशयेम ||
वदतु संस्कृतं, जयतु भारतं |
नरसिंह: |

No comments:

Post a Comment