Sunday, December 27, 2009

क्रोध: प्रथम शत्रु |

ॐ नमस्ते,

क्रोध: मानवस्य प्रथम शत्रु |
क्रोध: = सहना भावस्य अभाव: |
क्रोध: मानवं उन्मत्तं करोति, स्म्रितिम भ्रमणं करोति | कु-कृत्यानि कारयति |
भगवदगीतायाम श्लोक: अस्ति यत् 'क्रोधात भवति सम्मोह: सम्मोहात स्मृति भ्रम्शो, स्मृति भ्रम्शात बुद्धि नाशो, बुद्धि नाशात प्रणश्यति ' |
क्रोधस्य रूपाणि बहव: | वाहन चालकेशु मार्ग-उन्माद: [ road rage ] |
अग्रिम चालक: तावत वेगेन न गच्छति - इति क्रोध:| वा पृष्टत: चालक: अति वेगेन अग्रे गतावान ! - इति क्रोध: |
कार्यालये अहम् यत् उक्तवान तत् अन्ये  न कुर्वन्ति इति क्रोध: |
गृहे अहम् यत् अपेक्षयामी तत् इतरा: न  अवगच्छन्ति, न कुर्वन्ति इति क्रोध: |
क्रोधस्य फलं तु  अपघातम एव | मार्गे  वाहनस्य,  कार्यालये कार्यस्य, गृहे संबन्धस्य |
अपघातस्य प्रभावं निवारयितुम सर्वदा न शक्यं |  कदा कदा निवारयितुम शक्यते | कदा कदा   अपघात: शाश्वत घातं करोति |
अत: क्रोधस्य उपरि सर्वदा नियंत्रणं  साधयितव्यम  |

वदतु संस्कृतं नित्यं |

No comments:

Post a Comment