Sunday, August 2, 2015

तेलुगु चलचित्रं "बाहुबली" !!

तेलुगु चलचित्रं "बाहुबली"  !!

अमोघ भारतीय चलचित्रम् एतत् इदानीन्तन कालेषु !!  पञ्च तारा मूल्याङ्कं अर्हति "बाहुबली" !!
प्रभास्, तमन्ना, राणा, रम्य-कृष्णा, सत्य-राज्, अनुष्का आदि अभिनेतार: सम्यक् अभिनयम् कृतवन्त:|
तान्त्रिक रीत्या बहु श्रम: कृत: | काल्पनिक द्रुश्यानाम् चित्रणं अती समीचीनम् मनोहरम् च अस्ति |
न अत्यधिक न अत्यल्प इति भासते चित्रस्य वेगम् | सुमधुरं अस्ति संगीतं | लघु हास्यम् रोचते |
युद्ध दृश्यानि आकर्षनीयानि |

"... माहिष्मती साम्राज्यम् वर्धताम् अभिवर्धताम् ... "  :-)
अन्ते एतत् प्रश्न: सशेष: यत् ... कट्टप्पा बाहुबलीं किमर्थम् मारितवान् ??  ;-)

2016 संवत्सरे अस्य प्रश्नस्य समाधानम् लभते ...  तावत् सोत्साह-प्रतीक्षा क्रियते ||

महाभारतात् उद्धृतं भासते किञ्चित् कथावस्तू !  [ यदिहास्ति तदन्यत्र, यन्नेहास्ति न तत् क्वचित् !! ]

वदतु संस्कृतं नित्यम् |
नरसिंह |

1 comment:

  1. अद्यत्वे कोपी नव कथाम रचितुम नार्हति एव यतः पूर्वमेव सर्वं अभवत. नास्ति अत्र कोपी नवत्वं सर्वेषु शास्त्र ग्रंधेशु सर्वं अस्ति, किंचित परिवर्तनं कृत्वा नवमं कुर्वन्ति यद्यपि थथावत चल चित्रं सुंदरम अस्ति. तद्विशये अभिनंदनीयाः

    ReplyDelete