Saturday, January 1, 2011

दूरदर्शनं |

| मार्गशीर कृष्ण द्वादशी, कलियुगाब्ध ५११२ |
जनवरी १, २०११

ॐ नमस्ते,
दूरदर्शनं एकं बहुमुखी यन्त्रं अस्ति |
आधुनिक दूरदर्शन तन्त्रस्य आविष्कारम जॉन लोगी बाईरड महोदय: १९२५ तम वर्षे कृतवान |
तत: प्रारभ्य अद्यतन मोबाईल विडियो तंत्र पर्यन्तं बहु अभिवृद्धय: जातानि अस्मिन तंत्रे |
अद्य शिशो: कार्यक्रमत: नूतन आविश्कारान उद्दिश्य कृतानि कार्यक्रमानि पर्यन्तं बहु वैविध्यमय वस्तूनि द्रष्टुम शक्यते |
एतावदेव समय हन्तार: कार्यक्रमा: अपि बहव: सन्ति |
अस्य दर्शनं लघु हव्यास: भवति चेत उत्तमं | अन्यथा एतत बहु सुलभेन दुर्व्यसनम भवितुमर्हति |
अधिकं भवति चेत अमृतं अपि विषम भवति इति उक्ति: अस्ति खलु ?

वदतु संस्कृतं नित्यं
नरसिम्ह: |

No comments:

Post a Comment