वदतु संस्कृतं नित्यं
क्रोधि - चैत्र - कृष्ण - द्वादशी - May 5, 2024
अद्य ३० निमेषात्मक ध्यान अभ्यासः सम्यक् आसीत् |
व्यायामस्य पश्चात् कृतम् अद्य .. प्रायशः अतः एव इति मन्ये
अपि च प्रातः काले - स्फुरता अधिका दृश्यते |
श्वः पश्यामः
This is a blog to have an online space, to 'speak sanskrit daily'.
वदतु संस्कृतं नित्यं
क्रोधि - चैत्र - कृष्ण - द्वादशी - May 5, 2024
अद्य ३० निमेषात्मक ध्यान अभ्यासः सम्यक् आसीत् |
व्यायामस्य पश्चात् कृतम् अद्य .. प्रायशः अतः एव इति मन्ये
अपि च प्रातः काले - स्फुरता अधिका दृश्यते |
श्वः पश्यामः
वदतु संस्कृतम् नित्यम्
क्रोधि - चैत्र - कृष्ण - अष्टमी May 1, 2024
अद्यतने ध्यान समये - किञ्चित् समयानंतरं मन: प्रशान्तिम् अन्वभवत् |
30 निमेषा: कथं यापिता: ... न जाने .. सुप्त - जागृत - मिश्रित अवस्थायाम् आसीत् मन: ...
श्वास: तालम् अदात् |
श्व: पश्याम: ...
वदतु संस्कृतम् नित्यम् |
क्रोधि - चैत्र - कृष्ण - षष्ठी Apr 29, 2024
द्वितीय दिन ध्यानम् - 30 निमेषात्मकम् तदेव समये कृतम् |
किन्तु अद्य चित्त: एकत्र न अभवत् ... अनेकानि चिन्तनानि आगच्छन् गच्छन् आसन् ...
कार्यालय - यातायात - वाणिज्य - सांसारिक - विषयान्यानि विपुलतया मानस मन्दिरे विहरन्त: आसन् ...
श्व: पश्याम:
...
क्रोधि - चैत्र - कृष्ण - पञ्चमी Apr 24, 2024
वदतु संस्कृतम् नित्यम् |
अद्य 30 निमेषं यावत् ध्यानम् कृतवान् अहम् |
श्वासस्य उपरि गमनम् स्थाप्य - मनसि यानि आलोचनानि सञ्चरन्ति - तानि दृष्ट्वा समयं यापितं |
मानस मन्दिरे - चित्त: एकत्र न तिष्टति, परिचित प्रकृतिम् दर्शयति च |
श्व: पश्याम: पून: |
गूगल् chromebook यात्रा - Day 1
अद्य अहं एकं गुगल् chromebook क्रीतवान् |
द्रष्टुम् सम्यक् अस्ति , परन्तु कार्याचरणे अल्प सामर्थ्यं वहति एतत् यन्त्रं |
अन्तरजालम् अवलम्ब्य यानि कार्याणि सन्ति - तानि सम्यक् कर्तुम् शक्नुमः ...
किन्तु अन्यानि कृते - तावत् सुलभं उत साध्यं न दृश्यते |
परन्तु दैनन्दिक सरलानि कार्याणि बहु सुलभानि दृश्यन्ते |
हरिः ओं |
प्लव ज्येष्ठ कृ द्वितीय |
इदानींतन दिनेषु गृहतः कार्यं (work from home) प्रचलन् अस्ति |
विपर्यासः इत्युक्ते, कार्यमेव कुर्वंतः स्मः वयं आदिन पर्यंतं इति भासते |
इतः पूर्वम् किंचित् वा समयः लभते स्म - संचाराय, वस्त्रांतराय, जल्पनाय !
आशयाम यत् - शीघ्रमेव एषः संकटः निवार्येत , सर्वे पुनः सानुकूल्येन जीवनं यापयेम |
वदतु संस्कृतं नित्यम् |