Sunday, December 22, 2013

| होबिट् चलचित्रम् |

|  होबिट्  चलचित्रम्  |

अस्मिन् सप्ताहे वयं होबिट् आङ्ग्ल चलचित्रं दृष्टवन्त: |
त्रयात्मिक्यां श्रुङ्खलायाम्  एषा  द्वितीया अवतरणिका अस्ति ||

आयामत्रयी एषा कथा बहु सम्यक् कृता अस्ति |
बेल्बिनस्य धैर्यं , ओक्षील्दस्य शौर्यं,  ड्रागनस्य क्रोधं,  अन्धकारस्य दर्पं,  सम्यक् निरुपितानि   |
मनोहर दृश्यानि कल्पित निसर्ग सौन्दर्यं च  गणक यंत्र सामर्थ्यं दर्शयति |
घण्टा त्रयी सुदीर्घा सन्  अपि एषा कथा रोचका आसीत् |

अस्य वैभव-दृश्य-काव्यस्य तृतीय अवतरणिकाया: निरीक्षा नितरां क्रियते |

वदतु संस्कृतं नित्यं |
नरसिंह: |

Thursday, December 12, 2013

Some words in English sounding like Sanskrit ones

हरि: ॐ ।

They - ते  ( त्  कारन्त पुंल्लिंग प्र वि |  ब  व  )
Water - वारि
My - मे  ( अस्माद्  शब्द ष वि |  ए व )
That - तत्
There - तत्र
sky - ख   ( focus on the way of pronouncing sky 'skhai' )
divine - दिव्य
day - दिव   ( दिवाकर  - sun )
night - नक्त
strength - शक्ति
up - उपरि
under - अध:
man - मानव 

Surrender   -  SharaNa
Want - Vaanchha

वदतु  संस्कृतं नित्यं |
नरसिंह | 

Saturday, May 4, 2013

शिशो: जिज्ञासा - Close up Advertisement

शिशो: जिज्ञासा   -

विज्ञापनं  -  close up;  
नायक: सूर्य: close up फेनकेन दन्त धावनं कृत्वा बस् याने प्रयाणम् करोति |
अकस्मात्  कृतेन  break प्रयोगेन स: एकस्या: सह-यात्रिकाया: उपरि उत्पतति |
सा  close up  सुगन्धेन आह्लादिता भूत्वा हसति !!

एनं विज्ञापनं दृष्ट्वा मम षट् वर्षीय: पुत्र: पृष्टवान्  -  एवं निज जीवने भवति वा ?   यदि सूर्य: तावत्  उत्पतति चेत् ,  सा यात्रिका कपाळ मोक्षं न कुर्यात्  ??
एतत् विज्ञापनम्  मिथ्या अस्ति इति  :-)

वदतु संस्कृतं नित्यं |
नरसिंह: |

Friday, April 26, 2013

कन्नड चलचित्रं " सिम्पल्लाग् ओन्द् लव् स्ठोरी "

कन्नड चलचित्रं  "  सिम्पल्लाग् ओन्द् लव्  स्ठोरी " 

सम्यक्   कृतम् अस्ति  एतत् चलचित्रम्  |
नाति नाटकीयम्  नाति घोरं -   यथोचितं अस्ति - लघु प्रेम कथा |

एक: युवक: तस्य भगिन्या: विवाहस्य अनुकूलतया: कारणत:   स्वीय विवाहार्थं कोडगु  प्रान्तं गच्छति |
तत्र स: एकां सुन्दरीं पश्यति |  तस्यां अनुरक्त: भवति |  पश्चात्  सा तावत् न भवति यावत् स: चिन्तितवान्  |
तस्या: निज स्वरूपम् नाम किं, एतयो: प्रेम कथा साफल्यम् उपैति न वा इति शेष चित्रस्य कथा वस्तू  |

चित्रणं  कोडगु प्रदेशे कृतं, नैसर्गिक दृश्यावल्य: मनोहरा: |
नेपथ्य संगीतं   नाति मधुरं किन्तु सुश्राव्यं अस्ति |  द्वे गीते मधुरे स्त: |
नायक: नूतन: सन्  अपि सम्यक् अभिनयं कृतवान् |
नायिका सम्यक् दृश्यते, किन्तु तया अभिनय क्षेत्रे इतोऽपि परिश्रम: करणीय: |

मध्ये मध्ये कवन वाचनं समयोचितं  श्रूयते |
आहत्य लघु मनोरञ्जनाय  समीचीनं चलचित्रं  अस्ति  " सिम्पल्लाग् ओन्द् लव्  स्ठोरी "

वदतु संस्कृतं नित्यं 
नरसिंह: |