Friday, December 31, 2010

नव वर्षस्य शुभाशया: |

| मार्गशीर कृष्ण एकादशी, कलियुगाब्ध ५११२ |
दिसम्बर ३१, २०१०

ॐ नमस्ते,
अद्य २०१० संवत्सरस्य अंतिम दिनं अस्ति |
जगति सर्वत्र आगामी नूतन संवत्सरस्य स्वागताय जना: सन्नद्धा: |
गत वर्षस्य अवलोकनम कृत्वा नूतन वर्षस्य निरीक्षमाणा: अनेकान संकल्पान स्वीकुर्वन्ति |
वयं व्यसनान त्यजाम, शरीर स्वास्थ्यं वर्धयेम, सम्यक कार्यं कुर्म, अधिकं धनं अर्जयेम, सत्प्रजा: भवेम इति विविध प्रकारेण संकल्पान स्वीकुर्म: |
एतेषु अनेकान साधयितुम वयं शक्नुम: इति प्रार्थयित्वा २०११ संवत्सरस्य स्वागतम कुर्म: |

नव वर्षस्य शुभाशया: |

वदतु संस्कृतं नित्यं |
नरसिम्ह: |

Thursday, December 30, 2010

लोकयानम 'वज्र' वाहनं |

| मार्गशीर कृष्ण दशमी , कलियुगाब्द ५११२ |
दिसम्बर ३०, २०१०

ॐ नमस्ते,
बेंगलुरु नगरे BMTC संस्थाया: 'वज्र' लोकयाना सेवा अति उत्तमं अस्ति |
शैत्य-नियंत्रित वातावरणं सुखकरं अस्ति |
आसंदा: सम्यक सन्ति |
लोकयान यात्रेन लाभा: बहव: | स्व-चालन श्रम: / ट्राफ्फिक कारणेन क्लेश: च न भवति |
समयस्य लाभ: भवति | किमपि पठितुम शक्यते वा विश्रान्तिम कर्तुम शक्यते - समयस्य उत्तमं उपयोगम साध्यं भवति |

सर्वकारस्य एकं उत्तमं कार्यं अस्ति एषा सेवा |

वदतु संस्कृतं नित्यं |
नरसिम्ह: |

Wednesday, December 29, 2010

संस्कृत - सरल अभ्यासा: |

| मार्गशीर कृष्ण नवमी - कलियुगाब्ध ५११२ |
- दिसम्बर २९, २०१०

ॐ नमस्ते,

http://www.indiaquest.net.in

अस्मिन अंतर्जाल पुटे "learn sanskrit" इति कक्षायाम संस्कृते सरल अभ्यासा: सन्ति |
अत्र संस्कृत संभाषणं अधीतुम शक्नुवन्ति | please visit the site for further info.

वदतु संस्कृतं नित्यं
नरसिम्ह: |

Tuesday, December 28, 2010

Sanskrita - Puppet Show !

|Margashira Krishna Navami, Kaliyugabdha 5112|
-Dec 29, 2010

Om namaste,

Dhaatu Puppet Theater Presents 'Ashtavakra' a string Puppet Show in
Samskrita. There will be a short vocabulary lesson before the show commencement.

Come experience the world of Puppetry in Sanskrit. Event organised by the
International Sanskrit Book Fair. Date- Sat, 8th Jan 2011 Venue- Kuvempu
Kalakshetra ( old Sanjaya Theater), on KR Road opposite The Bengaluru Gayana
Samaja, inside the KIMS Compound. Time 3pm to 4:30pm

Vadatu sanskritam nityam |
narasimha:

Sanskrita Pustaka Mela - Bangalore

| Margashira Krishna Navami, Kaliyugabdha 5112 |
- Dec 29, 2010

Om namaste,

Bangalore nagare, Janavary 7 - 9 paryantam, vishwa sanskrita pustaka mela prachalate.
sthalam: National College Praanganam.

Vadatu sanskritam nityam |
narasimha:

Friday, July 9, 2010

संस्कृत computer dictionary

ॐ नमस्ते,
संस्कृत computer dictionary - http://sanskritdocuments.org/dict/English-Sanskrit_Computer_Dictionary.pdf

This contains an amazing collection of technical words in sanskrit.

वदतु संस्कृतं नित्यं,
नरसिम्ह:

Sunday, May 16, 2010

अक्षय तृतीया

ॐ नमस्ते,

अद्य अक्षय तृतीया | वैशाख शुद्ध तृतीया 'अक्षय तृतीया' इति उच्यते।
भारते एतत शुभ दिनं इति आचरिश्यते | यत किमपि शुभ कार्यं अद्य करणीयं इति विश्वास: अस्ति |
यत अद्य क्रियते, तत अक्षयं भवति इति विश्वास: |
अधिकांश जना: अद्य सुवर्णं क्रीनन्ति | अत: अद्य सुवर्ण आपनेशु बहु जन-सांद्रता भवति |
सुवर्णस्य मूल्यम अपि अद्य किंचित अधिक: एव भवति |

वदतु संस्कृतं नित्यं,
नरसिंह: |

Friday, May 14, 2010

कन्नड़ चलचित्रं 'नानू नन्न कनसु ' |

ॐ नमस्ते,

कन्नड़ चलचित्रं 'नानू नन्न कनसु ' | [ अहम् च मम स्वप्नं ]
प्रकाश रै निर्मितम् एततचलचित्रं 'पिता - पुत्री' बांधव्यम्  अधिकृत्य अस्ति | 'कनसु' [ स्वप्नं ] इति पुत्र्या: नाम |
सामान्यतया पितर: पुत्रीम् उद्दिश्य किंचित् अधिकं एव चिंताम् कुर्वन्ति, अनावश्यक आवेगम् कुर्वन्ति इति,
पुत्र्याई उत्तमं शिक्षणम् प्रदातव्यं, येन सा स्व-जीवनस्य कृते सम्यक् योजयितुम् शक्येत इति,
पुत्र्या: जीवनस्य उपरि पितु: तावत् अधिकारं न भवतु, एतत् तस्यै एव दायित्वं भवतु इति,
चलचित्रस्य मुख्य सन्देश: अस्ति |

तत्र तत्र हास्य सिंचनम् अस्ति | संवाद: सुसंस्कृतं अस्ति | नैसर्गिक दृश्या: सम्यक् सन्ति |
संगीतं किंचित् सम्यक भवितुम् शक्यते - तावत् सुश्राव्यम् नास्ति |

एतत् एकम् सदभिरुची चलचित्रं अस्ति |

वदतु संस्कृतं नित्यं
नरसिंह: |

Tuesday, May 11, 2010

बीजापुर नगरस्य संस्कृत आपणं |

ॐ नमस्ते,

बीजापुर नगरस्य संस्कृत आपणं |
३R गारमेंट्स शाप इति बीजापुर नगरे आपणं अस्ति | एतत 'राम सिंह राजपूत' इति महोदयस्य आपणं |
मिनाक्षी चौक मध्ये स्थिते अस्मिन आपणे ८ कार्मिका: सन्ति | गत ८ वर्षेभ्य: अत्र संस्कृतं एव व्यवहारिक भाषा रूपेण प्रयुज्यते |
राम सिंह महोदय वदति 'अत्र संस्कृतस्य उपयोग-आरम्भस्य पश्चात ग्राहका: अवर्धयन | ते प्रथमतया संस्कृते वार्तालापम कर्तुम आगच्छन्ति, पश्चात वस्त्राणि क्रीनंती ' इति |

रामसिंह: संस्कृत भारत्या: कार्यकर्त: | १० दिनात्मका शिबिरं प्रविश्य संस्कृत अभ्यासं कृत्वा गृहे संस्कृतं वक्तुम प्रारमभं कृतवान | राम्सिंघस्य अनुजौ मोहन सिंह, विट्ठल सिंह अपि आपणे कार्यं कुरुत: | ते सर्वे संस्कृतं स्पष्ठं वदन्ति |

'संस्कृतस्य कारणेन ग्राहका: अस्मान नितरां विश्वासम कुर्वन्ति | मूल्यस्य विषये संदेहम न कुर्वन्ति |' इति ते वदन्ति |

एतां दृष्ट्वा अन्या: वर्तका: अपि संस्कृते वक्तुम आरब्धा: |

वदतु संस्कृतं नित्यं,
नरसिंह: |

link to this article :

http://epaper. timesofindia. com/Default/ Scripting/ ArticleWin. asp?From= Archive&Source=Page&Skin=TOINEW&BaseHref=TOIBG/ 2010/05/11&PageLabel=7&EntityId=Ar00701&ViewMode=HTML&GZ=T

Saturday, May 8, 2010

नूतना शाला "पूर्ण प्रमति"

ॐ नमस्ते,

नूतना शाला "पूर्ण प्रमति " इति बेंगलूरू नगरे गिरिनगरे स्थापिता अस्ति
अस्या: शालाया: विशिष्टता तु आधुनिकं च आध्यात्मिकं च पाठ्यम
ICSE पाठ्यम च संस्कृतं / संस्कृति / वेदांतम अपि पाठ्ये स्थापितं अस्ति
आंग्ल भाषा प्रथम / संस्कृतं द्वितीय / भाषात्मिका अस्ति
शिक्षण क्रम: तु ABCD - 1234 एव न भूत्वा , शिशो: सामर्थ्यं च अभिरुचिम च अनुसृत्य योजितम भवति

विनूतन: एष: प्रयत्न: श्लाघनीय: अस्ति
वदतु संस्कृतं नित्यं
नरसिंह:


Sunday, May 2, 2010

बेबीलोन देशस्य आती श्रीमंत: |

ॐ नमस्ते,

बेबीलोन देशस्य आती श्रीमंत: - 'अर्काद' महोदय: |
तस्य सप्त सूत्राणि सन्ति - धनिका: भवितुम ::
१) एक दशाम्षम (१/१०) संचयम करोतु | [ Save 1/10 of your earning ]
२) व्ययस्य नियंत्रणम करोतु | [ control your expenses ]
३) संचितस्य वित्तस्य गुणनम करोतु | [ multiply the savings ]
४) अस्य वर्धित-वित्तस्य हनिना परिरक्षणं करोतु | [ protect the savings from loss ]
५) स्व-गृहस्य स्वामी भवतु | [ own your house ]
६) भविष्य जीवनस्य अभिरक्षणं करोतु | [ insure your future ]
७) स्वीय उपार्जन सामर्थ्यं वर्धायतु | [ increase your earning capability ]

एते: सूत्रै: धनिका: भवितुम अर्हन्ति |

वदतु संस्कृतं नित्यं |
नरसिम्ह: |

Sunday, February 21, 2010

गणन परिशोधन

ॐ नमस्ते,

२१ फेब्रवारी २०१०

बहु दिनानि यावत् लेखितुम अहम न शक्तवान |
कार्यालये गणन परिशोधन प्रक्रिया प्रचलन अस्ति |
गणन परिशोधन परिकल्पना कौटिल्यस्य समयत: आसीत् एव |
कार्य कर्ता अन्य: / परिशोधक: अन्य: - इति उक्ते "separation of duties" अस्या: प्रक्रियाया: मूलम |
कार्य करणं एव न, उत तस्य सम्यक विवरणं च निरूपणं अपि अति मुख्यम भवति |
अनया प्रक्रियया लोपान दोषान निवारयितुम अपि साहाय्यं भवति |
परन्तु अस्याम बहूनि कार्याणि भवन्ति इति कारणेन बहु श्रमं अपि भवति :-) ||

वदतु संस्कृतं नित्यं |
नारसिंह |

Saturday, January 16, 2010

३ मूर्खा: |

ॐ नमस्ते,
१६ जनवरी २००९ :
अस्मिन सप्ताहान्त्ये अहम् '३ मूर्खा:' चलचित्रं दृष्टवान
आमिर खान, माधवन च अन्य: नट: पात्राणि कृतवंत:
अस्य चित्रस्य सन्देश: मिश्रित: अस्ति
मुख्यत: छात्राणाम कृते - किमपि असाध्यं न, स्वीय शक्ति च इच्छा अनुसारं साधनं कर्तुम शक्यते
अपि च प्राप्ते कष्टे अपजयम न स्वीकरोतु - इतोपि प्रयत्नं करोतु - कौशलम प्रति साधनं करोतु, साफल्यं स्वयमेव लभति इति सन्देश:
माता-पितरौ कृते - अपत्यं प्रति अधिकं पठितुम पीडनं न कुर्वन्तु इति च - ते यद् इच्छन्ति, तत एव कर्तुम अनुमतिम ददन्तु इति अपि सन्देश: अस्ति
छात्र - वसति गृहस्य अपि हास्य रीत्या चित्रणं अस्ति

आहत्य सम्यक कृतं चलचित्रं अस्ति

वदतु संस्कृतं नित्यं
नरसिम्ह

Monday, January 4, 2010

विजयनगर साम्राज्यं |

ॐ नमस्ते,

विजयनगर साम्राज्यं   कर्नाटके  अति प्रमुख च वैभावोपेत साम्राज्यं आसीत् |
क्रिस्त शक १३ शतमान त: १६ पर्यन्तं दक्षिण भारते शासनं अकरोत |
हक्का बुक्का एनं स्थापितवतौ |
तेषु प्रौढ़ देवराय च कृष्ण देवराय इति प्रख्यातौ राजानौ  |

गत मासे अहम् हम्पी नगरं द्रष्तुम गतवान |
तत्रत्यान मंदिरान च निवेशान भग्न स्थितौ दृष्ट्वा नितरां शोकं अनुभूतवान |
परन्तु इतिहासं परिवर्तयितुम तु न शक्यं |  इत: परं अस्मान बहित: जना: न बाधयेयु: इति कथं अस्माभि: योजितव्यं इति एव चिन्तनीयं इति अपि अभासत में मनसि |

साम्प्रदायिकम निधि: रक्षणीय: | वर्धनीय: अपि च |
हम्पी नगर्याम शिल्प कला कृतय: बहव: सन्ति | अपि च वाणिज्य परिकल्पना: अपि नितरां सन्ति | भव्य भवन निर्माणा: पठितुं लभन्ते |
निश्चयं प्रेक्षनीयम स्थलं अस्ति हम्पी नगरी !!

वदतु संस्कृतं नित्यं |