Sunday, May 16, 2010

अक्षय तृतीया

ॐ नमस्ते,

अद्य अक्षय तृतीया | वैशाख शुद्ध तृतीया 'अक्षय तृतीया' इति उच्यते।
भारते एतत शुभ दिनं इति आचरिश्यते | यत किमपि शुभ कार्यं अद्य करणीयं इति विश्वास: अस्ति |
यत अद्य क्रियते, तत अक्षयं भवति इति विश्वास: |
अधिकांश जना: अद्य सुवर्णं क्रीनन्ति | अत: अद्य सुवर्ण आपनेशु बहु जन-सांद्रता भवति |
सुवर्णस्य मूल्यम अपि अद्य किंचित अधिक: एव भवति |

वदतु संस्कृतं नित्यं,
नरसिंह: |

Friday, May 14, 2010

कन्नड़ चलचित्रं 'नानू नन्न कनसु ' |

ॐ नमस्ते,

कन्नड़ चलचित्रं 'नानू नन्न कनसु ' | [ अहम् च मम स्वप्नं ]
प्रकाश रै निर्मितम् एततचलचित्रं 'पिता - पुत्री' बांधव्यम्  अधिकृत्य अस्ति | 'कनसु' [ स्वप्नं ] इति पुत्र्या: नाम |
सामान्यतया पितर: पुत्रीम् उद्दिश्य किंचित् अधिकं एव चिंताम् कुर्वन्ति, अनावश्यक आवेगम् कुर्वन्ति इति,
पुत्र्याई उत्तमं शिक्षणम् प्रदातव्यं, येन सा स्व-जीवनस्य कृते सम्यक् योजयितुम् शक्येत इति,
पुत्र्या: जीवनस्य उपरि पितु: तावत् अधिकारं न भवतु, एतत् तस्यै एव दायित्वं भवतु इति,
चलचित्रस्य मुख्य सन्देश: अस्ति |

तत्र तत्र हास्य सिंचनम् अस्ति | संवाद: सुसंस्कृतं अस्ति | नैसर्गिक दृश्या: सम्यक् सन्ति |
संगीतं किंचित् सम्यक भवितुम् शक्यते - तावत् सुश्राव्यम् नास्ति |

एतत् एकम् सदभिरुची चलचित्रं अस्ति |

वदतु संस्कृतं नित्यं
नरसिंह: |

Tuesday, May 11, 2010

बीजापुर नगरस्य संस्कृत आपणं |

ॐ नमस्ते,

बीजापुर नगरस्य संस्कृत आपणं |
३R गारमेंट्स शाप इति बीजापुर नगरे आपणं अस्ति | एतत 'राम सिंह राजपूत' इति महोदयस्य आपणं |
मिनाक्षी चौक मध्ये स्थिते अस्मिन आपणे ८ कार्मिका: सन्ति | गत ८ वर्षेभ्य: अत्र संस्कृतं एव व्यवहारिक भाषा रूपेण प्रयुज्यते |
राम सिंह महोदय वदति 'अत्र संस्कृतस्य उपयोग-आरम्भस्य पश्चात ग्राहका: अवर्धयन | ते प्रथमतया संस्कृते वार्तालापम कर्तुम आगच्छन्ति, पश्चात वस्त्राणि क्रीनंती ' इति |

रामसिंह: संस्कृत भारत्या: कार्यकर्त: | १० दिनात्मका शिबिरं प्रविश्य संस्कृत अभ्यासं कृत्वा गृहे संस्कृतं वक्तुम प्रारमभं कृतवान | राम्सिंघस्य अनुजौ मोहन सिंह, विट्ठल सिंह अपि आपणे कार्यं कुरुत: | ते सर्वे संस्कृतं स्पष्ठं वदन्ति |

'संस्कृतस्य कारणेन ग्राहका: अस्मान नितरां विश्वासम कुर्वन्ति | मूल्यस्य विषये संदेहम न कुर्वन्ति |' इति ते वदन्ति |

एतां दृष्ट्वा अन्या: वर्तका: अपि संस्कृते वक्तुम आरब्धा: |

वदतु संस्कृतं नित्यं,
नरसिंह: |

link to this article :

http://epaper. timesofindia. com/Default/ Scripting/ ArticleWin. asp?From= Archive&Source=Page&Skin=TOINEW&BaseHref=TOIBG/ 2010/05/11&PageLabel=7&EntityId=Ar00701&ViewMode=HTML&GZ=T

Saturday, May 8, 2010

नूतना शाला "पूर्ण प्रमति"

ॐ नमस्ते,

नूतना शाला "पूर्ण प्रमति " इति बेंगलूरू नगरे गिरिनगरे स्थापिता अस्ति
अस्या: शालाया: विशिष्टता तु आधुनिकं च आध्यात्मिकं च पाठ्यम
ICSE पाठ्यम च संस्कृतं / संस्कृति / वेदांतम अपि पाठ्ये स्थापितं अस्ति
आंग्ल भाषा प्रथम / संस्कृतं द्वितीय / भाषात्मिका अस्ति
शिक्षण क्रम: तु ABCD - 1234 एव न भूत्वा , शिशो: सामर्थ्यं च अभिरुचिम च अनुसृत्य योजितम भवति

विनूतन: एष: प्रयत्न: श्लाघनीय: अस्ति
वदतु संस्कृतं नित्यं
नरसिंह:


Sunday, May 2, 2010

बेबीलोन देशस्य आती श्रीमंत: |

ॐ नमस्ते,

बेबीलोन देशस्य आती श्रीमंत: - 'अर्काद' महोदय: |
तस्य सप्त सूत्राणि सन्ति - धनिका: भवितुम ::
१) एक दशाम्षम (१/१०) संचयम करोतु | [ Save 1/10 of your earning ]
२) व्ययस्य नियंत्रणम करोतु | [ control your expenses ]
३) संचितस्य वित्तस्य गुणनम करोतु | [ multiply the savings ]
४) अस्य वर्धित-वित्तस्य हनिना परिरक्षणं करोतु | [ protect the savings from loss ]
५) स्व-गृहस्य स्वामी भवतु | [ own your house ]
६) भविष्य जीवनस्य अभिरक्षणं करोतु | [ insure your future ]
७) स्वीय उपार्जन सामर्थ्यं वर्धायतु | [ increase your earning capability ]

एते: सूत्रै: धनिका: भवितुम अर्हन्ति |

वदतु संस्कृतं नित्यं |
नरसिम्ह: |