Tuesday, May 11, 2010

बीजापुर नगरस्य संस्कृत आपणं |

ॐ नमस्ते,

बीजापुर नगरस्य संस्कृत आपणं |
३R गारमेंट्स शाप इति बीजापुर नगरे आपणं अस्ति | एतत 'राम सिंह राजपूत' इति महोदयस्य आपणं |
मिनाक्षी चौक मध्ये स्थिते अस्मिन आपणे ८ कार्मिका: सन्ति | गत ८ वर्षेभ्य: अत्र संस्कृतं एव व्यवहारिक भाषा रूपेण प्रयुज्यते |
राम सिंह महोदय वदति 'अत्र संस्कृतस्य उपयोग-आरम्भस्य पश्चात ग्राहका: अवर्धयन | ते प्रथमतया संस्कृते वार्तालापम कर्तुम आगच्छन्ति, पश्चात वस्त्राणि क्रीनंती ' इति |

रामसिंह: संस्कृत भारत्या: कार्यकर्त: | १० दिनात्मका शिबिरं प्रविश्य संस्कृत अभ्यासं कृत्वा गृहे संस्कृतं वक्तुम प्रारमभं कृतवान | राम्सिंघस्य अनुजौ मोहन सिंह, विट्ठल सिंह अपि आपणे कार्यं कुरुत: | ते सर्वे संस्कृतं स्पष्ठं वदन्ति |

'संस्कृतस्य कारणेन ग्राहका: अस्मान नितरां विश्वासम कुर्वन्ति | मूल्यस्य विषये संदेहम न कुर्वन्ति |' इति ते वदन्ति |

एतां दृष्ट्वा अन्या: वर्तका: अपि संस्कृते वक्तुम आरब्धा: |

वदतु संस्कृतं नित्यं,
नरसिंह: |

link to this article :

http://epaper. timesofindia. com/Default/ Scripting/ ArticleWin. asp?From= Archive&Source=Page&Skin=TOINEW&BaseHref=TOIBG/ 2010/05/11&PageLabel=7&EntityId=Ar00701&ViewMode=HTML&GZ=T

No comments:

Post a Comment