Sunday, August 2, 2015

तेलुगु चलचित्रं "बाहुबली" !!

तेलुगु चलचित्रं "बाहुबली"  !!

अमोघ भारतीय चलचित्रम् एतत् इदानीन्तन कालेषु !!  पञ्च तारा मूल्याङ्कं अर्हति "बाहुबली" !!
प्रभास्, तमन्ना, राणा, रम्य-कृष्णा, सत्य-राज्, अनुष्का आदि अभिनेतार: सम्यक् अभिनयम् कृतवन्त:|
तान्त्रिक रीत्या बहु श्रम: कृत: | काल्पनिक द्रुश्यानाम् चित्रणं अती समीचीनम् मनोहरम् च अस्ति |
न अत्यधिक न अत्यल्प इति भासते चित्रस्य वेगम् | सुमधुरं अस्ति संगीतं | लघु हास्यम् रोचते |
युद्ध दृश्यानि आकर्षनीयानि |

"... माहिष्मती साम्राज्यम् वर्धताम् अभिवर्धताम् ... "  :-)
अन्ते एतत् प्रश्न: सशेष: यत् ... कट्टप्पा बाहुबलीं किमर्थम् मारितवान् ??  ;-)

2016 संवत्सरे अस्य प्रश्नस्य समाधानम् लभते ...  तावत् सोत्साह-प्रतीक्षा क्रियते ||

महाभारतात् उद्धृतं भासते किञ्चित् कथावस्तू !  [ यदिहास्ति तदन्यत्र, यन्नेहास्ति न तत् क्वचित् !! ]

वदतु संस्कृतं नित्यम् |
नरसिंह |

Thursday, July 30, 2015

|| इक्ष्वाकु वंशस्थ:|| [ Scion of Ikshvaku ]

|| इक्ष्वाकु वंशस्थ:||  [ Scion of Ikshvaku ]

अमीश् त्रिपाठी वर्यस्य 'राम कथा' आवल्याम् एतत् प्रथम पुस्तकम् प्रकाशितम् |
गत सप्ताहे अहम् एतत् पठितवान् |
कथावस्तु मूल कथाया:किञ्चित् भिन्नम् अस्ति |
किन्तु बहु वेगेन धावति .. रोचक घटनावालीं कथयति ! अद्यतन पाठकेभय: रोचते !!

रामस्य गरिमाम्,  मौल्य-निष्ठां, आदर्श समाजस्य कल्पनाम् च चर्चयितुम् प्रयास: कृत: |

रामायण आधारित काल्पनिक कथा इत्येव गणनीया एषा कथा !! तर्हि आस्वादयितुम् शक्नुम: |

वदतु संस्कृतं नित्यम् |
नरसिंह |