Tuesday, January 25, 2011

भारत संविधान रचना दिनं |

|पौष कृष्ण सप्तमी, कलियुगाब्ध ५११२ |
जनवरी २६, २०११

ॐ नमस्ते,
अद्य भारतस्य संविधान रचनाया: संधर्भ: देशे आचरिश्यते |
१९५० तमे वर्षे श्रीमान भीमराव आंबेडकर महोदयस्य नेतृत्वे भारत राष्ट्र: स्वीय संविधानं अंगीकृतवत |
२६ जनवरी दिनान्कस्य महत्वं अस्ति | - १९३० तमे वर्षे भारत राष्ट्र: स्वातन्त्र्यं उद्घोषितवत |
तस्य स्मरणार्थं सम्विधानस्य स्वीकृति: अस्मिन दिने कृतं |
तदानीम श्रीमान राजेंद्र प्रसाद महोदय: राष्ट्रपति: आसीत् |

वदतु संस्कृतं नित्यं,
नरसिम्ह: |

Friday, January 14, 2011

नगरे द्विचक्रिका |

| पौष शुक्ल दशमी, कलियुगाब्ध ५११२ |
- जनवरी १४, २०११

ॐ नमस्ते,
नगरे द्विचक्रिका चालका: इदानीं अधिका: द्रष्टुम लभन्ते |
द्विचक्रिकाया: बहु लाभा: सन्ति | व्यायामं अपि भवति, प्रदूषणं अपि निवार्यते |
किन्तु किंचित दुष्करम अपि अस्ति |
वर्षा काले उपयोग: कष्टकर: |
नगरे वेगी वाहना: बहव: - तै: आपदस्य संभवेन जागरूकता वोढव्या |
वैविध्यमय द्विचक्रिका: आपणे लभन्ति | साधारण द्विचक्रिका: सार्ध त्रि सहस्रत: पंचादश सहस्र रुप्यकाणि पर्यन्तं मूल्ये लभन्ति |




वदतु संस्कृतं नित्यं
नरसिम्ह: |





Tuesday, January 11, 2011

शिशूनाम चित्तं |

|पौष शुक्ल सप्तमी, कलियुगाब्ध ५११२ |
जनवरी ११, २०११
ॐ नमस्ते,

शिशूनाम चित्तं |
शीशव: बहु चंचल - चित्ता: भवन्ति | एक क्षणे क्रीडितुम इच्छन्ति - अन्यत क्षणे तूष्णीम तिष्ठन्ति |
परन्तु दूरदर्शनं निरतं पश्यन्ति ! इदानीं 'छोटा भीम', 'बेन १०', 'टॉम & जेरी', 'कृष्ण & बलराम' इत्यादी कार्यक्रमा: शिशूनाम बहु रोचते ! अत: गृहे सर्वे अपि एतावदेव कार्यक्रमान द्रष्टुम आग्रहिता: भवन्ति !

परन्तु शिशव: शुद्ध अंत:करणा: अपि भवन्ति | तावत द्वेषम मनसि न निधाय प्रेम विश्वासेन एव सर्वदा व्यवहरन्ति |

वदतु संस्कृतं नित्यं
नरसिम्ह: |

Friday, January 7, 2011

गूगल अक्षरान्तरं

|पौष शुक्ल चतुर्थी, कलियुगाब्ध ५११२ |
जनवरी ८, २०११
ॐ नमस्ते

संस्कृत भाषा अति पुरातन च सुन्दर भाषा अस्ति |
इदानीम् अहं गूगल अक्षरान्तरं [गूगल transliterator -IME] उपयुज्य लिखन् अस्मि |
अनया उपलब्धिना चिन्तयामि यत् लिपि स्पष्टता भवेत् इति |

बहूनां भाषानां अक्षरान्तर साधनानि सन्ति गूगल जाल पुटे |

वदतु संस्कृतं नित्यं
नरसिंह: |

http://www.samskritbookfair.org/

| पौष शुक्ल तृतीय, कलियुगाब्ध ५११२ |
जनवरी ७, २०११
ॐ नमस्ते,

बहु संभ्रमेन उत्साहेन बेंगलूरू नगरे जगत: प्रथम संस्कृत पुस्तक मेला प्रचलते |
national college grounds प्रांगणे प्रचलंत्याम अस्याम मेलायाम बहव: आसक्तिकर विषया: द्रष्टुम लभन्ति |

अन्याम्शान ज्ञातुम e- पुटं पश्यन्तु : http://www.samskritbookfair.org/

वदतु संस्कृतं नित्यं,
नरसिम्ह: |

Wednesday, January 5, 2011

संकल्पं अस्ति चेत मार्ग: दृश्यते |

| पौष शुक्ल प्रथम, कलियुगाब्ध ५११२ |
- जनवरी ५, २०११
ॐ नमस्ते,

सामाजिक सम्पर्क जालम अद्यतन समये बहु प्रभावी अस्ति |
एतावदेव मम सहोद्योगिना साकं वार्तालापम कुर्वन आसम |
जयेष्टस्य तस्य बहु कालीन इच्छा आसीत् यत एकं 'अभियंत्रण विद्या संस्थाम' स्थापयितव्यम इति |
परन्तु एतत कार्यं बहु बृहत अस्ति, मया साध्यं वा न वा इति स: चिन्तयन एव आसीत् बहु कालेन |
तस्य मातुल: उक्तवान यत - चिंता माँ करोतु, एतत साध्यं भवति एव इति |

मम मित्रस्य सामाजिक संपर्क: बहु प्रभावी अस्ति |
स: स्वस्य अन्यं भूस्वामी मित्रं आमंत्रयित्वा एतत योजनाम च अभिलाशाम चर्चितवान |
स: भूस्वामी मित्रं अपि शिक्षण आसक्त: |
स: स्वस्य स्वाधीने सति भूमौ चतुर्थाम्षम विद्या सम्स्थार्थम प्रतिज्ञाम कृतवान !! अपि च धन साहाय्यं अपि प्रतिज्ञाम कृतवान !!

एकस्मिन एव गोष्ट्याम विद्या संस्थाये धनं च भूमी च प्राप्तौ !!
संकल्पं अस्ति चेत मार्ग: दृश्यते इति उक्ति: अस्ति एव किल !!

सत्कार्याय - मनो-संकल्पं दृढम आवश्यकम | तेन साकं सज्जनानाम सम्पर्कं अपि आवश्यकम :-)

वदतु संस्कृतं नित्यं,
नरसिम्ह: |

Saturday, January 1, 2011

दूरदर्शनं |

| मार्गशीर कृष्ण द्वादशी, कलियुगाब्ध ५११२ |
जनवरी १, २०११

ॐ नमस्ते,
दूरदर्शनं एकं बहुमुखी यन्त्रं अस्ति |
आधुनिक दूरदर्शन तन्त्रस्य आविष्कारम जॉन लोगी बाईरड महोदय: १९२५ तम वर्षे कृतवान |
तत: प्रारभ्य अद्यतन मोबाईल विडियो तंत्र पर्यन्तं बहु अभिवृद्धय: जातानि अस्मिन तंत्रे |
अद्य शिशो: कार्यक्रमत: नूतन आविश्कारान उद्दिश्य कृतानि कार्यक्रमानि पर्यन्तं बहु वैविध्यमय वस्तूनि द्रष्टुम शक्यते |
एतावदेव समय हन्तार: कार्यक्रमा: अपि बहव: सन्ति |
अस्य दर्शनं लघु हव्यास: भवति चेत उत्तमं | अन्यथा एतत बहु सुलभेन दुर्व्यसनम भवितुमर्हति |
अधिकं भवति चेत अमृतं अपि विषम भवति इति उक्ति: अस्ति खलु ?

वदतु संस्कृतं नित्यं
नरसिम्ह: |