Saturday, May 4, 2024

ध्यान दिनम् ५

 वदतु  संस्कृतं नित्यं

क्रोधि - चैत्र - कृष्ण - द्वादशी - May 5, 2024

अद्य ३० निमेषात्मक ध्यान अभ्यासः सम्यक् आसीत् |

व्यायामस्य पश्चात् कृतम् अद्य .. प्रायशः अतः एव इति मन्ये 

अपि च प्रातः काले - स्फुरता अधिका दृश्यते |

श्वः पश्यामः 

    

Wednesday, May 1, 2024

ध्यान दिनम् 4

 वदतु संस्कृतम् नित्यम् 

क्रोधि - चैत्र - कृष्ण - अष्टमी May 1, 2024

अद्यतने ध्यान समये - किञ्चित् समयानंतरं मन: प्रशान्तिम् अन्वभवत् |

30 निमेषा: कथं यापिता: ... न जाने .. सुप्त - जागृत - मिश्रित अवस्थायाम् आसीत् मन: ... 

श्वास: तालम्  अदात् |

श्व: पश्याम:  ... 

ध्यान - दिनम् 2

 वदतु संस्कृतम् नित्यम् |

क्रोधि - चैत्र - कृष्ण - षष्ठी  Apr 29, 2024

द्वितीय दिन ध्यानम् - 30 निमेषात्मकम् तदेव समये कृतम् |

किन्तु अद्य चित्त: एकत्र न अभवत् ... अनेकानि चिन्तनानि आगच्छन् गच्छन् आसन् ... 

कार्यालय - यातायात - वाणिज्य - सांसारिक - विषयान्यानि विपुलतया मानस मन्दिरे विहरन्त: आसन्  ... 

श्व: पश्याम:

... 


Sunday, April 28, 2024

ध्यान अभ्यास प्रयत्नः दिनम् 1

क्रोधि - चैत्र - कृष्ण - पञ्चमी  Apr 24, 2024 

वदतु संस्कृतम् नित्यम् |

अद्य 30 निमेषं यावत् ध्यानम् कृतवान् अहम्  |

श्वासस्य उपरि गमनम् स्थाप्य -  मनसि यानि आलोचनानि सञ्चरन्ति - तानि दृष्ट्वा समयं यापितं |

मानस मन्दिरे -  चित्त: एकत्र न तिष्टति, परिचित प्रकृतिम् दर्शयति च |

श्व: पश्याम: पून: |

Saturday, December 30, 2023

वदतु संस्कृतम् नित्यम् - गुगल् chromebook

 गूगल् chromebook यात्रा - Day 1

अद्य अहं एकं गुगल् chromebook क्रीतवान् |

द्रष्टुम् सम्यक् अस्ति , परन्तु कार्याचरणे अल्प सामर्थ्यं वहति एतत् यन्त्रं |

अन्तरजालम् अवलम्ब्य यानि कार्याणि सन्ति - तानि  सम्यक् कर्तुम् शक्नुमः ... 

किन्तु अन्यानि कृते  - तावत् सुलभं उत साध्यं न दृश्यते |

परन्तु दैनन्दिक सरलानि कार्याणि बहु सुलभानि दृश्यन्ते |

Thursday, December 28, 2023

सप्ताह - अन्त्य [ weekend ] संवत्सरान्त्य [ yearend ]

नमस्ते,

इदानीं सप्ताह - अन्त्य [ weekend ] आगतम् ..  
अपि च आंग्ल संवत्सरस्य अन्त्य च |

संक्रमण कालः सदा अवकाशं कल्पयति - आत्म अवलोकनाय, नूतन संकल्पाय, कार्य औन्नत्याय !
गत अवध्याः मननम् - तत्रत्याः पाठाः, वृद्धि - ह्रासाः,  लाभाsलाभाः, अग्रिम अवध्याः कृते मार्गम् सूचयन्ति ..

सर्वेभ्यः अवलोकन पर्वणः शुभाशयाः !

वदतु संस्कृतं नित्यम् 
नरसिंह
   

Saturday, June 26, 2021

सर्वेषाम् स्वस्तिर्भवतु |

 हरिः ओं |

प्लव ज्येष्ठ कृ द्वितीय |

इदानींतन दिनेषु गृहतः कार्यं (work from home) प्रचलन् अस्ति |

विपर्यासः इत्युक्ते, कार्यमेव कुर्वंतः स्मः वयं आदिन पर्यंतं इति भासते |

इतः पूर्वम् किंचित् वा समयः लभते स्म - संचाराय, वस्त्रांतराय, जल्पनाय  !

आशयाम यत् - शीघ्रमेव  एषः संकटः निवार्येत , सर्वे पुनः सानुकूल्येन जीवनं यापयेम |

वदतु संस्कृतं नित्यम् |




Friday, May 3, 2019

 हरि: ॐ
विकारि संवत्सरस्य शुभाशया: |

वदतु संस्कृतं नित्यं |