Sunday, December 22, 2013

| होबिट् चलचित्रम् |

|  होबिट्  चलचित्रम्  |

अस्मिन् सप्ताहे वयं होबिट् आङ्ग्ल चलचित्रं दृष्टवन्त: |
त्रयात्मिक्यां श्रुङ्खलायाम्  एषा  द्वितीया अवतरणिका अस्ति ||

आयामत्रयी एषा कथा बहु सम्यक् कृता अस्ति |
बेल्बिनस्य धैर्यं , ओक्षील्दस्य शौर्यं,  ड्रागनस्य क्रोधं,  अन्धकारस्य दर्पं,  सम्यक् निरुपितानि   |
मनोहर दृश्यानि कल्पित निसर्ग सौन्दर्यं च  गणक यंत्र सामर्थ्यं दर्शयति |
घण्टा त्रयी सुदीर्घा सन्  अपि एषा कथा रोचका आसीत् |

अस्य वैभव-दृश्य-काव्यस्य तृतीय अवतरणिकाया: निरीक्षा नितरां क्रियते |

वदतु संस्कृतं नित्यं |
नरसिंह: |

1 comment:

  1. अस्तु सत्यम निरिक्ष माणस्य तृतीय अवतरणिका अवश्यं रोचका भवेदिति आशास्महे

    ReplyDelete