Saturday, May 4, 2024

ध्यान दिनम् ५

 वदतु  संस्कृतं नित्यं

क्रोधि - चैत्र - कृष्ण - द्वादशी - May 5, 2024

अद्य ३० निमेषात्मक ध्यान अभ्यासः सम्यक् आसीत् |

व्यायामस्य पश्चात् कृतम् अद्य .. प्रायशः अतः एव इति मन्ये 

अपि च प्रातः काले - स्फुरता अधिका दृश्यते |

श्वः पश्यामः 

    

Wednesday, May 1, 2024

ध्यान दिनम् 4

 वदतु संस्कृतम् नित्यम् 

क्रोधि - चैत्र - कृष्ण - अष्टमी May 1, 2024

अद्यतने ध्यान समये - किञ्चित् समयानंतरं मन: प्रशान्तिम् अन्वभवत् |

30 निमेषा: कथं यापिता: ... न जाने .. सुप्त - जागृत - मिश्रित अवस्थायाम् आसीत् मन: ... 

श्वास: तालम्  अदात् |

श्व: पश्याम:  ... 

ध्यान - दिनम् 2

 वदतु संस्कृतम् नित्यम् |

क्रोधि - चैत्र - कृष्ण - षष्ठी  Apr 29, 2024

द्वितीय दिन ध्यानम् - 30 निमेषात्मकम् तदेव समये कृतम् |

किन्तु अद्य चित्त: एकत्र न अभवत् ... अनेकानि चिन्तनानि आगच्छन् गच्छन् आसन् ... 

कार्यालय - यातायात - वाणिज्य - सांसारिक - विषयान्यानि विपुलतया मानस मन्दिरे विहरन्त: आसन्  ... 

श्व: पश्याम:

... 


Sunday, April 28, 2024

ध्यान अभ्यास प्रयत्नः दिनम् 1

क्रोधि - चैत्र - कृष्ण - पञ्चमी  Apr 24, 2024 

वदतु संस्कृतम् नित्यम् |

अद्य 30 निमेषं यावत् ध्यानम् कृतवान् अहम्  |

श्वासस्य उपरि गमनम् स्थाप्य -  मनसि यानि आलोचनानि सञ्चरन्ति - तानि दृष्ट्वा समयं यापितं |

मानस मन्दिरे -  चित्त: एकत्र न तिष्टति, परिचित प्रकृतिम् दर्शयति च |

श्व: पश्याम: पून: |

Saturday, December 30, 2023

वदतु संस्कृतम् नित्यम् - गुगल् chromebook

 गूगल् chromebook यात्रा - Day 1

अद्य अहं एकं गुगल् chromebook क्रीतवान् |

द्रष्टुम् सम्यक् अस्ति , परन्तु कार्याचरणे अल्प सामर्थ्यं वहति एतत् यन्त्रं |

अन्तरजालम् अवलम्ब्य यानि कार्याणि सन्ति - तानि  सम्यक् कर्तुम् शक्नुमः ... 

किन्तु अन्यानि कृते  - तावत् सुलभं उत साध्यं न दृश्यते |

परन्तु दैनन्दिक सरलानि कार्याणि बहु सुलभानि दृश्यन्ते |

Thursday, December 28, 2023

सप्ताह - अन्त्य [ weekend ] संवत्सरान्त्य [ yearend ]

नमस्ते,

इदानीं सप्ताह - अन्त्य [ weekend ] आगतम् ..  
अपि च आंग्ल संवत्सरस्य अन्त्य च |

संक्रमण कालः सदा अवकाशं कल्पयति - आत्म अवलोकनाय, नूतन संकल्पाय, कार्य औन्नत्याय !
गत अवध्याः मननम् - तत्रत्याः पाठाः, वृद्धि - ह्रासाः,  लाभाsलाभाः, अग्रिम अवध्याः कृते मार्गम् सूचयन्ति ..

सर्वेभ्यः अवलोकन पर्वणः शुभाशयाः !

वदतु संस्कृतं नित्यम् 
नरसिंह
   

Saturday, June 26, 2021

सर्वेषाम् स्वस्तिर्भवतु |

 हरिः ओं |

प्लव ज्येष्ठ कृ द्वितीय |

इदानींतन दिनेषु गृहतः कार्यं (work from home) प्रचलन् अस्ति |

विपर्यासः इत्युक्ते, कार्यमेव कुर्वंतः स्मः वयं आदिन पर्यंतं इति भासते |

इतः पूर्वम् किंचित् वा समयः लभते स्म - संचाराय, वस्त्रांतराय, जल्पनाय  !

आशयाम यत् - शीघ्रमेव  एषः संकटः निवार्येत , सर्वे पुनः सानुकूल्येन जीवनं यापयेम |

वदतु संस्कृतं नित्यम् |




Friday, May 3, 2019

 हरि: ॐ
विकारि संवत्सरस्य शुभाशया: |

वदतु संस्कृतं नित्यं |

Thursday, December 29, 2016

भो मन: विचित्रं ते स्वभाव:

यदा व्यस्थ: सन् चिन्तयामि .. तदा मनसि अनियन्त्रिता: चिन्ता: भवन्ति |   यदा किञ्चित् लिखामि इति विरामेण चिन्तयामि .. तदा मनसि शून्यता भाव: !!  भो मन: विचित्रं ते स्वभाव: !

जानन् अपि काल-हरण दुष्परिणामान् ... तेषु एव प्रेरयति मन: |
क्लिष्टः एव मनो-नियन्त्रणम्  |

वदतु संस्कृतं |

Sunday, August 2, 2015

तेलुगु चलचित्रं "बाहुबली" !!

तेलुगु चलचित्रं "बाहुबली"  !!

अमोघ भारतीय चलचित्रम् एतत् इदानीन्तन कालेषु !!  पञ्च तारा मूल्याङ्कं अर्हति "बाहुबली" !!
प्रभास्, तमन्ना, राणा, रम्य-कृष्णा, सत्य-राज्, अनुष्का आदि अभिनेतार: सम्यक् अभिनयम् कृतवन्त:|
तान्त्रिक रीत्या बहु श्रम: कृत: | काल्पनिक द्रुश्यानाम् चित्रणं अती समीचीनम् मनोहरम् च अस्ति |
न अत्यधिक न अत्यल्प इति भासते चित्रस्य वेगम् | सुमधुरं अस्ति संगीतं | लघु हास्यम् रोचते |
युद्ध दृश्यानि आकर्षनीयानि |

"... माहिष्मती साम्राज्यम् वर्धताम् अभिवर्धताम् ... "  :-)
अन्ते एतत् प्रश्न: सशेष: यत् ... कट्टप्पा बाहुबलीं किमर्थम् मारितवान् ??  ;-)

2016 संवत्सरे अस्य प्रश्नस्य समाधानम् लभते ...  तावत् सोत्साह-प्रतीक्षा क्रियते ||

महाभारतात् उद्धृतं भासते किञ्चित् कथावस्तू !  [ यदिहास्ति तदन्यत्र, यन्नेहास्ति न तत् क्वचित् !! ]

वदतु संस्कृतं नित्यम् |
नरसिंह |

Thursday, July 30, 2015

|| इक्ष्वाकु वंशस्थ:|| [ Scion of Ikshvaku ]

|| इक्ष्वाकु वंशस्थ:||  [ Scion of Ikshvaku ]

अमीश् त्रिपाठी वर्यस्य 'राम कथा' आवल्याम् एतत् प्रथम पुस्तकम् प्रकाशितम् |
गत सप्ताहे अहम् एतत् पठितवान् |
कथावस्तु मूल कथाया:किञ्चित् भिन्नम् अस्ति |
किन्तु बहु वेगेन धावति .. रोचक घटनावालीं कथयति ! अद्यतन पाठकेभय: रोचते !!

रामस्य गरिमाम्,  मौल्य-निष्ठां, आदर्श समाजस्य कल्पनाम् च चर्चयितुम् प्रयास: कृत: |

रामायण आधारित काल्पनिक कथा इत्येव गणनीया एषा कथा !! तर्हि आस्वादयितुम् शक्नुम: |

वदतु संस्कृतं नित्यम् |
नरसिंह |

Saturday, February 15, 2014

Some videos & discussions on Sanskrit

Myths about Sanskrit : a talk by Dr. Kapil Kapoor :   http://www.youtube.com/watch?v=rYRvpEOYrvI



Sunday, December 22, 2013

| होबिट् चलचित्रम् |

|  होबिट्  चलचित्रम्  |

अस्मिन् सप्ताहे वयं होबिट् आङ्ग्ल चलचित्रं दृष्टवन्त: |
त्रयात्मिक्यां श्रुङ्खलायाम्  एषा  द्वितीया अवतरणिका अस्ति ||

आयामत्रयी एषा कथा बहु सम्यक् कृता अस्ति |
बेल्बिनस्य धैर्यं , ओक्षील्दस्य शौर्यं,  ड्रागनस्य क्रोधं,  अन्धकारस्य दर्पं,  सम्यक् निरुपितानि   |
मनोहर दृश्यानि कल्पित निसर्ग सौन्दर्यं च  गणक यंत्र सामर्थ्यं दर्शयति |
घण्टा त्रयी सुदीर्घा सन्  अपि एषा कथा रोचका आसीत् |

अस्य वैभव-दृश्य-काव्यस्य तृतीय अवतरणिकाया: निरीक्षा नितरां क्रियते |

वदतु संस्कृतं नित्यं |
नरसिंह: |

Thursday, December 12, 2013

Some words in English sounding like Sanskrit ones

हरि: ॐ ।

They - ते  ( त्  कारन्त पुंल्लिंग प्र वि |  ब  व  )
Water - वारि
My - मे  ( अस्माद्  शब्द ष वि |  ए व )
That - तत्
There - तत्र
sky - ख   ( focus on the way of pronouncing sky 'skhai' )
divine - दिव्य
day - दिव   ( दिवाकर  - sun )
night - नक्त
strength - शक्ति
up - उपरि
under - अध:
man - मानव 

Surrender   -  SharaNa
Want - Vaanchha

वदतु  संस्कृतं नित्यं |
नरसिंह | 

Saturday, May 4, 2013

शिशो: जिज्ञासा - Close up Advertisement

शिशो: जिज्ञासा   -

विज्ञापनं  -  close up;  
नायक: सूर्य: close up फेनकेन दन्त धावनं कृत्वा बस् याने प्रयाणम् करोति |
अकस्मात्  कृतेन  break प्रयोगेन स: एकस्या: सह-यात्रिकाया: उपरि उत्पतति |
सा  close up  सुगन्धेन आह्लादिता भूत्वा हसति !!

एनं विज्ञापनं दृष्ट्वा मम षट् वर्षीय: पुत्र: पृष्टवान्  -  एवं निज जीवने भवति वा ?   यदि सूर्य: तावत्  उत्पतति चेत् ,  सा यात्रिका कपाळ मोक्षं न कुर्यात्  ??
एतत् विज्ञापनम्  मिथ्या अस्ति इति  :-)

वदतु संस्कृतं नित्यं |
नरसिंह: |

Friday, April 26, 2013

कन्नड चलचित्रं " सिम्पल्लाग् ओन्द् लव् स्ठोरी "

कन्नड चलचित्रं  "  सिम्पल्लाग् ओन्द् लव्  स्ठोरी " 

सम्यक्   कृतम् अस्ति  एतत् चलचित्रम्  |
नाति नाटकीयम्  नाति घोरं -   यथोचितं अस्ति - लघु प्रेम कथा |

एक: युवक: तस्य भगिन्या: विवाहस्य अनुकूलतया: कारणत:   स्वीय विवाहार्थं कोडगु  प्रान्तं गच्छति |
तत्र स: एकां सुन्दरीं पश्यति |  तस्यां अनुरक्त: भवति |  पश्चात्  सा तावत् न भवति यावत् स: चिन्तितवान्  |
तस्या: निज स्वरूपम् नाम किं, एतयो: प्रेम कथा साफल्यम् उपैति न वा इति शेष चित्रस्य कथा वस्तू  |

चित्रणं  कोडगु प्रदेशे कृतं, नैसर्गिक दृश्यावल्य: मनोहरा: |
नेपथ्य संगीतं   नाति मधुरं किन्तु सुश्राव्यं अस्ति |  द्वे गीते मधुरे स्त: |
नायक: नूतन: सन्  अपि सम्यक् अभिनयं कृतवान् |
नायिका सम्यक् दृश्यते, किन्तु तया अभिनय क्षेत्रे इतोऽपि परिश्रम: करणीय: |

मध्ये मध्ये कवन वाचनं समयोचितं  श्रूयते |
आहत्य लघु मनोरञ्जनाय  समीचीनं चलचित्रं  अस्ति  " सिम्पल्लाग् ओन्द् लव्  स्ठोरी "

वदतु संस्कृतं नित्यं 
नरसिंह: |

Tuesday, August 14, 2012

स्वातन्त्र्य उत्सव:

|| शक १९३४, नन्दन संवत्सर, श्रावण मास:, कृष्ण त्रयोदशी ||

 ॐ नमस्ते, 
अद्य भारतस्य ६६ तम स्वातन्त्र्य उत्सव: ||
शालीवाहन शक १८६९ तमे वर्षे अधिक-श्रावण मासे कृष्ण पक्षे चतुर्दश्यां अस्माकं राष्ट्र: स्वातन्त्र्यं प्राप्त: |
ईदृश कालात् परम् अपि अस्माकं राष्ट्रे सामान्य-भाषा रूपेण  भारतीय भाषा का अपि  न प्रचलते इति विपर्यास: ||
वयं सर्वे आङ्ग्ल भाषां एव सामान्य-भाषा इति स्वीकृतवन्त: | एष: अस्मान् चिन्तयितुं प्रेरयति यत् - "स्वातन्त्र्यं" इति उक्ते किं इति ||
इत: परम् वा संस्कृतं अस्माकं राष्ट्र भाषा भवेत् इति आशयेम |



ओल्य्म्पिक्स क्रीडायां भारत राष्ट्र: ६ पदकान जेत्वा आगत: इति गर्व: अस्माकं अद्य |
अग्रे इतोऽपि अधिकान पदकान जयेम इति आशयेम ||
वदतु संस्कृतं, जयतु भारतं |
नरसिंह: |

Thursday, March 8, 2012

जगत्गुरुः समासः

एषः भागः “महा पेरियवाळ – दरिसण अनुभवङगळ” पुस्तकात् ब्रह्मश्री रामकृष्ण दीक्षितस्य समर्पनात् उद्धृतः तमिळतः अनुवादतः च ।

          १९३३ तमे वषे काञ्ची शंकराचार्यः चन्द्रशेकरेन्द्र सरस्वती स्वामिनस्य काशी यात्रायाम् एतत् सम्भवम् अभवत् । काशी महाराजः आचार्यस्य कृते प्रासादे स्वागत  कार्यक्रमं आयोजितवान् । काशी नगरस्य सर्वे प्रमुखाः तत्र आसन् । बहवः पण्डिताः अपि आचार्यस्य स्वागतनाय तत्र आगच्छन् । एतेषु पण्डितेषु केचन असूयाः अभवन् । “एषः किमर्थं जगद्गुरुः पदं  स्व नामस्य पूर्वं योजितः । तस्य परीक्षा करणीय ” इति ते चिन्तितवन्तः । आचार्यः सभायाम् आगत्य उपविष्टवान् । एकः पण्डितः तदा अपृच्छत् -

               “कः जगद्गुरुः ?” । 
               “अहम् एव” इति आचार्यः उक्तवान् । 
               “भवान् एव जगतां गुरुः वा?” इति सः पण्डितः पुनः अपृच्छत् ।
               “जगतां गुरु न । जगति प्रपद्यमानाः सर्वे मम गुरवः” इति आचार्यः उक्तवान् । 

         
एतत् श्रुत्वा सभायां सर्वे पण्डिताः स्तंभिताः अभवन् । प्रासादस्य भित्यां  
पारावतानां कृते बिलानि निर्मितानि आसन् । तेषु बिलेषु निर्मितान् नीडान् दर्शयित्वा आचार्यः पण्डितान् अपृच्छत् -
               “किमिदम् ?” । 
               “नीडाः” ।
               “केन निर्मितम् ?” । 
               “चटकैः” ।


हस्तपादैः विना चटकाः नीडाः निर्मायन्ति । अस्मभ्यं हस्तपादाः सन्ति । तथापि चटकाः इव नीडाः निर्मातुं न शक्नुमः । चटकेषु एका क्रिया शक्ति अस्ति । सा मयि नास्ति । अतः चटकः मम गुरुः” इति उक्त्वा आचार्यः नंरतया चटकं हस्ताभ्यां अवन्दत ।

वदतु संस्कृतं नित्यं |  
कैलाशः 

Saturday, August 27, 2011

| गं गणपतये नम: |

| खर संवत्सर - श्रावण मास - कृष्ण त्रयोदशी |
Aug 27, 2011

| गं गणपतये नम: |


आगमिनी सप्ताहे "श्री विनायक चतुर्थी" भारत देशे विश्वे बहुषु देशेषु आचारिश्यते !!
विनायकस्य प्रतिमां नीय गृहे गृहे ससंभ्रमं पूजयन्ति | गणनाथ: विघ्नानि निवारयित्वा शुभं करोतु इति प्रार्थयन्ति |
तत्पूर्वं गणेशस्य माता गौरीदेवी पूजां स्वीकरोति |
आह्लादकर वातावरणं निर्मितं भवति | सर्वे नूतन वस्त्राणि धरन्ति , उत्साहेन पूजां कुर्वन्ति |
अन्ते 'पुन: शीघ्रं आगच्छतु' इति प्रार्थयित्वा प्रतिमा रूपात्मक गौरी-गनपतीं प्रेषयन्ति |


निसर्ग स्नेही प्रतिमां आनयाम | उत्साहेन आचरिष्याम | जन हिताय, देश हिताय प्रार्थयाम |

|| विनायकाय नमो नमः ||


वदतु संस्कृतं नित्यं |

नरसिंह:


Monday, August 8, 2011

अर्थ व्यवस्था

श्रावण शुक्ल दशमी, खर संवत्सर
Aug 8, 2011
विश्व अर्थ व्यवस्था

प्रस्तुत आर्थिक स्थिथौ अमेरिका देशस्य वाणिज्य विश्वास सूच्य अंकम किंचित अध: पातितम - S&P इति सूच्यांक गणन संस्थया
एतत अंक: सूचयति यत - दत्तं धनं पुनर आगच्छति व न वा / रुणी धनं प्रतिदातुम शक्त: वा अशक्त: वा इति
अनेन अध: पतनेन विश्व अर्थ व्यवस्थायाम पुन: कोलाहलं उद्भवति इति चिंता जनिता अस्ति
एष: संकष्ट: अचिरादेव परिहार्यते इति आशेम

वदतु संस्कृतं नित्यं
नरसिम्ह: