Friday, July 9, 2010

संस्कृत computer dictionary

ॐ नमस्ते,
संस्कृत computer dictionary - http://sanskritdocuments.org/dict/English-Sanskrit_Computer_Dictionary.pdf

This contains an amazing collection of technical words in sanskrit.

वदतु संस्कृतं नित्यं,
नरसिम्ह:

Sunday, May 16, 2010

अक्षय तृतीया

ॐ नमस्ते,

अद्य अक्षय तृतीया | वैशाख शुद्ध तृतीया 'अक्षय तृतीया' इति उच्यते।
भारते एतत शुभ दिनं इति आचरिश्यते | यत किमपि शुभ कार्यं अद्य करणीयं इति विश्वास: अस्ति |
यत अद्य क्रियते, तत अक्षयं भवति इति विश्वास: |
अधिकांश जना: अद्य सुवर्णं क्रीनन्ति | अत: अद्य सुवर्ण आपनेशु बहु जन-सांद्रता भवति |
सुवर्णस्य मूल्यम अपि अद्य किंचित अधिक: एव भवति |

वदतु संस्कृतं नित्यं,
नरसिंह: |

Friday, May 14, 2010

कन्नड़ चलचित्रं 'नानू नन्न कनसु ' |

ॐ नमस्ते,

कन्नड़ चलचित्रं 'नानू नन्न कनसु ' | [ अहम् च मम स्वप्नं ]
प्रकाश रै निर्मितम् एततचलचित्रं 'पिता - पुत्री' बांधव्यम्  अधिकृत्य अस्ति | 'कनसु' [ स्वप्नं ] इति पुत्र्या: नाम |
सामान्यतया पितर: पुत्रीम् उद्दिश्य किंचित् अधिकं एव चिंताम् कुर्वन्ति, अनावश्यक आवेगम् कुर्वन्ति इति,
पुत्र्याई उत्तमं शिक्षणम् प्रदातव्यं, येन सा स्व-जीवनस्य कृते सम्यक् योजयितुम् शक्येत इति,
पुत्र्या: जीवनस्य उपरि पितु: तावत् अधिकारं न भवतु, एतत् तस्यै एव दायित्वं भवतु इति,
चलचित्रस्य मुख्य सन्देश: अस्ति |

तत्र तत्र हास्य सिंचनम् अस्ति | संवाद: सुसंस्कृतं अस्ति | नैसर्गिक दृश्या: सम्यक् सन्ति |
संगीतं किंचित् सम्यक भवितुम् शक्यते - तावत् सुश्राव्यम् नास्ति |

एतत् एकम् सदभिरुची चलचित्रं अस्ति |

वदतु संस्कृतं नित्यं
नरसिंह: |

Tuesday, May 11, 2010

बीजापुर नगरस्य संस्कृत आपणं |

ॐ नमस्ते,

बीजापुर नगरस्य संस्कृत आपणं |
३R गारमेंट्स शाप इति बीजापुर नगरे आपणं अस्ति | एतत 'राम सिंह राजपूत' इति महोदयस्य आपणं |
मिनाक्षी चौक मध्ये स्थिते अस्मिन आपणे ८ कार्मिका: सन्ति | गत ८ वर्षेभ्य: अत्र संस्कृतं एव व्यवहारिक भाषा रूपेण प्रयुज्यते |
राम सिंह महोदय वदति 'अत्र संस्कृतस्य उपयोग-आरम्भस्य पश्चात ग्राहका: अवर्धयन | ते प्रथमतया संस्कृते वार्तालापम कर्तुम आगच्छन्ति, पश्चात वस्त्राणि क्रीनंती ' इति |

रामसिंह: संस्कृत भारत्या: कार्यकर्त: | १० दिनात्मका शिबिरं प्रविश्य संस्कृत अभ्यासं कृत्वा गृहे संस्कृतं वक्तुम प्रारमभं कृतवान | राम्सिंघस्य अनुजौ मोहन सिंह, विट्ठल सिंह अपि आपणे कार्यं कुरुत: | ते सर्वे संस्कृतं स्पष्ठं वदन्ति |

'संस्कृतस्य कारणेन ग्राहका: अस्मान नितरां विश्वासम कुर्वन्ति | मूल्यस्य विषये संदेहम न कुर्वन्ति |' इति ते वदन्ति |

एतां दृष्ट्वा अन्या: वर्तका: अपि संस्कृते वक्तुम आरब्धा: |

वदतु संस्कृतं नित्यं,
नरसिंह: |

link to this article :

http://epaper. timesofindia. com/Default/ Scripting/ ArticleWin. asp?From= Archive&Source=Page&Skin=TOINEW&BaseHref=TOIBG/ 2010/05/11&PageLabel=7&EntityId=Ar00701&ViewMode=HTML&GZ=T

Saturday, May 8, 2010

नूतना शाला "पूर्ण प्रमति"

ॐ नमस्ते,

नूतना शाला "पूर्ण प्रमति " इति बेंगलूरू नगरे गिरिनगरे स्थापिता अस्ति
अस्या: शालाया: विशिष्टता तु आधुनिकं च आध्यात्मिकं च पाठ्यम
ICSE पाठ्यम च संस्कृतं / संस्कृति / वेदांतम अपि पाठ्ये स्थापितं अस्ति
आंग्ल भाषा प्रथम / संस्कृतं द्वितीय / भाषात्मिका अस्ति
शिक्षण क्रम: तु ABCD - 1234 एव न भूत्वा , शिशो: सामर्थ्यं च अभिरुचिम च अनुसृत्य योजितम भवति

विनूतन: एष: प्रयत्न: श्लाघनीय: अस्ति
वदतु संस्कृतं नित्यं
नरसिंह:


Sunday, May 2, 2010

बेबीलोन देशस्य आती श्रीमंत: |

ॐ नमस्ते,

बेबीलोन देशस्य आती श्रीमंत: - 'अर्काद' महोदय: |
तस्य सप्त सूत्राणि सन्ति - धनिका: भवितुम ::
१) एक दशाम्षम (१/१०) संचयम करोतु | [ Save 1/10 of your earning ]
२) व्ययस्य नियंत्रणम करोतु | [ control your expenses ]
३) संचितस्य वित्तस्य गुणनम करोतु | [ multiply the savings ]
४) अस्य वर्धित-वित्तस्य हनिना परिरक्षणं करोतु | [ protect the savings from loss ]
५) स्व-गृहस्य स्वामी भवतु | [ own your house ]
६) भविष्य जीवनस्य अभिरक्षणं करोतु | [ insure your future ]
७) स्वीय उपार्जन सामर्थ्यं वर्धायतु | [ increase your earning capability ]

एते: सूत्रै: धनिका: भवितुम अर्हन्ति |

वदतु संस्कृतं नित्यं |
नरसिम्ह: |

Sunday, February 21, 2010

गणन परिशोधन

ॐ नमस्ते,

२१ फेब्रवारी २०१०

बहु दिनानि यावत् लेखितुम अहम न शक्तवान |
कार्यालये गणन परिशोधन प्रक्रिया प्रचलन अस्ति |
गणन परिशोधन परिकल्पना कौटिल्यस्य समयत: आसीत् एव |
कार्य कर्ता अन्य: / परिशोधक: अन्य: - इति उक्ते "separation of duties" अस्या: प्रक्रियाया: मूलम |
कार्य करणं एव न, उत तस्य सम्यक विवरणं च निरूपणं अपि अति मुख्यम भवति |
अनया प्रक्रियया लोपान दोषान निवारयितुम अपि साहाय्यं भवति |
परन्तु अस्याम बहूनि कार्याणि भवन्ति इति कारणेन बहु श्रमं अपि भवति :-) ||

वदतु संस्कृतं नित्यं |
नारसिंह |

Saturday, January 16, 2010

३ मूर्खा: |

ॐ नमस्ते,
१६ जनवरी २००९ :
अस्मिन सप्ताहान्त्ये अहम् '३ मूर्खा:' चलचित्रं दृष्टवान
आमिर खान, माधवन च अन्य: नट: पात्राणि कृतवंत:
अस्य चित्रस्य सन्देश: मिश्रित: अस्ति
मुख्यत: छात्राणाम कृते - किमपि असाध्यं न, स्वीय शक्ति च इच्छा अनुसारं साधनं कर्तुम शक्यते
अपि च प्राप्ते कष्टे अपजयम न स्वीकरोतु - इतोपि प्रयत्नं करोतु - कौशलम प्रति साधनं करोतु, साफल्यं स्वयमेव लभति इति सन्देश:
माता-पितरौ कृते - अपत्यं प्रति अधिकं पठितुम पीडनं न कुर्वन्तु इति च - ते यद् इच्छन्ति, तत एव कर्तुम अनुमतिम ददन्तु इति अपि सन्देश: अस्ति
छात्र - वसति गृहस्य अपि हास्य रीत्या चित्रणं अस्ति

आहत्य सम्यक कृतं चलचित्रं अस्ति

वदतु संस्कृतं नित्यं
नरसिम्ह

Monday, January 4, 2010

विजयनगर साम्राज्यं |

ॐ नमस्ते,

विजयनगर साम्राज्यं   कर्नाटके  अति प्रमुख च वैभावोपेत साम्राज्यं आसीत् |
क्रिस्त शक १३ शतमान त: १६ पर्यन्तं दक्षिण भारते शासनं अकरोत |
हक्का बुक्का एनं स्थापितवतौ |
तेषु प्रौढ़ देवराय च कृष्ण देवराय इति प्रख्यातौ राजानौ  |

गत मासे अहम् हम्पी नगरं द्रष्तुम गतवान |
तत्रत्यान मंदिरान च निवेशान भग्न स्थितौ दृष्ट्वा नितरां शोकं अनुभूतवान |
परन्तु इतिहासं परिवर्तयितुम तु न शक्यं |  इत: परं अस्मान बहित: जना: न बाधयेयु: इति कथं अस्माभि: योजितव्यं इति एव चिन्तनीयं इति अपि अभासत में मनसि |

साम्प्रदायिकम निधि: रक्षणीय: | वर्धनीय: अपि च |
हम्पी नगर्याम शिल्प कला कृतय: बहव: सन्ति | अपि च वाणिज्य परिकल्पना: अपि नितरां सन्ति | भव्य भवन निर्माणा: पठितुं लभन्ते |
निश्चयं प्रेक्षनीयम स्थलं अस्ति हम्पी नगरी !!

वदतु संस्कृतं नित्यं |

Sunday, December 27, 2009

क्रोध: प्रथम शत्रु |

ॐ नमस्ते,

क्रोध: मानवस्य प्रथम शत्रु |
क्रोध: = सहना भावस्य अभाव: |
क्रोध: मानवं उन्मत्तं करोति, स्म्रितिम भ्रमणं करोति | कु-कृत्यानि कारयति |
भगवदगीतायाम श्लोक: अस्ति यत् 'क्रोधात भवति सम्मोह: सम्मोहात स्मृति भ्रम्शो, स्मृति भ्रम्शात बुद्धि नाशो, बुद्धि नाशात प्रणश्यति ' |
क्रोधस्य रूपाणि बहव: | वाहन चालकेशु मार्ग-उन्माद: [ road rage ] |
अग्रिम चालक: तावत वेगेन न गच्छति - इति क्रोध:| वा पृष्टत: चालक: अति वेगेन अग्रे गतावान ! - इति क्रोध: |
कार्यालये अहम् यत् उक्तवान तत् अन्ये  न कुर्वन्ति इति क्रोध: |
गृहे अहम् यत् अपेक्षयामी तत् इतरा: न  अवगच्छन्ति, न कुर्वन्ति इति क्रोध: |
क्रोधस्य फलं तु  अपघातम एव | मार्गे  वाहनस्य,  कार्यालये कार्यस्य, गृहे संबन्धस्य |
अपघातस्य प्रभावं निवारयितुम सर्वदा न शक्यं |  कदा कदा निवारयितुम शक्यते | कदा कदा   अपघात: शाश्वत घातं करोति |
अत: क्रोधस्य उपरि सर्वदा नियंत्रणं  साधयितव्यम  |

वदतु संस्कृतं नित्यं |

Saturday, December 5, 2009

प्रथम विमान यान अनुभव:

ॐ नमस्ते,
५ दिसम्बर २००९,

प्रथम विमान यान अनुभव: |

इदानीम विमान यान यात्रा तु सर्वे साधारण एव |
परन्तु प्रथम यात्रा तु विशेष: एव | मम प्रथम यात्रा घंटा-त्रयी आसीत् |
विमान पत्तने आरक्षक वर्ग: सर्वान शोधयित्वा अंत: गन्तुम अनुमातिम ददन्ति |
अत्र एव घंटा द्वयं भवति | पश्चात आरोहण-निरीक्षा शालायाम एक घंटा भवति | बहव: यात्रिका: पुस्ताकान पठंत: सन्ति | अन्ये खाद्यान खादयंत: अन्ये जंगम-यन्त्रे संभाषयंत: अन्ये परस्पर उभय-कुशलोपरी चर्चयंत: अन्ये दिनपत्रिकाम पठंत: सन्ति |
इत: परं यान-आरोहण कार्यक्रम: |
यान संस्था कार्यकर्तार: आसन-चीटिकाम ददन्ति | तम दृष्ट्वा आसन स्वीकार: |
यान-अधिपति: घोषं करोति "अहम् अस्य यानस्य अधिपति: वदन  अस्मि, सर्वेषाम अस्मिन याने स्वागतम, अस्या: यात्राया: अवधि: त्रीणि घंटा: भवति, भवत: यात्रा सुखी भवतु, अस्माकं वायु संस्थाम चयनं कृतवद्भी: भवद्भी: धन्यवाद:"    

यान: यन्त्रानि चालयति, शब्द: तीव्री-भवन गच्छति |
गगन-सख्य: आसन-पट्टीम बंधयितुम निर्देशान यच्छन्ति, च दुर्घटाने अम्लकारा-छद्म  धारण विधिम पाठयन्ति |

तत: परं यान: वेगम वर्धयन उपरि  uddayati  |  अन्य: एव अनुभव: प्राप्स्यति | वयं इदानीं सूर्यम प्रति गच्चंत: स्म: इति भाति |

२३ दिसम्बर २००९ |

आकाशे यानम औनत्यम वर्धयित्वा गच्चति |  यान अधिपति: वदति 'इदानीम वयं अग्रस्थानाम प्रति दिशा-निश्चिता: स्म: |
आसन-पट्टीम,  संगणकम  वा जंगम-यन्त्रं  उद्घाटयितुमर्हंती' इति | 
तत्र तत्र वायु कोशा: सन्ति | यान अधिपति: वदति इदानीम वयं वायु समरंभ स्थाने प्रविष्टवन्त: | आसन पट्टीम बंधयतु , सर्वे उपविशन्तु इति |   पश्चात 'इदानीं समीचीनं अस्ति , आसन पट्टीम उद्घाटयितुमर्हंती' इति |
गगन-सख्य: कदापि पानीयं, कदापि खाद्यं, कदापि करवस्त्रम इति यत् किमपि प्रुच्छंती एव इत: तत: अटन्ती सन्ति |

यानस्य जालकात बहि: भूमि: दृश्यते |  एतत अति सुंदर-दृश्य: | आकाशे स्थित्वा भूमिम द्रष्तुम अतीव आनंदम अनुभवाम  |
तत: मेघा: दृश्यन्ते | वयं नारद: इव आकाशे चलंत: स्म: इति भाति |
सूर्य: दिगन्ते अति अमोघ: राराजते |

इत: परं यान अधिपति: पुन: उवाच 'वयं अग्रस्थानम आगतवन्त: |  स्वीय आसने उपविशतु, आसन पट्टीम बंधयतु' इति |
पश्चात यान: अध: गमनं कर्तुम् आरभति | वायु-यान-अवरोहण-घट्टम प्राप्य चक्रान बहि: आनीय अवतरति |
किंचित् इत: तत: डोलयित्वा वेगम न्यूनी-कृत्वा साक्षात गच्चति | भासते यत् यानम 'त्रिचक्र यानम' (auto-rickshaw) इव डोलयित्वा गच्चन अस्ति इति |

क्रमेण वेगम न्यूनी-कृत्वा पूर्णतया विरति | यान अधिपति: वदति 'अग्रस्थाने तापमान: चतुर्विमशति  मात्रा अस्ति | भागाश: मेघाव्रूत: अस्ति | भवन्ताम यात्रा सुखीकरी आसीत् इति भावयाम: | भवत: दिनं शुभ दिनं भवतु | धन्यवाद:' इति |
वयं स्वीय स्यूतानि गृहीत्वा अवतराम: | यान कार्यकर्तार: द्वारे स्थित्वा 'धन्यवाद:' इति उक्त्वा मंद-हासम कुर्वन्ति |


विमान पत्तने अन्यानि स्यूतानी स्वीकृत्य तत: निर्गमनं कृत्वा भाटक - यानम (taxi) स्वीकृत्य गृहम गच्छाम: |



वदतु संस्कृतं नित्यं |

Monday, November 2, 2009

समय: एव जीवन: |

ॐ नमस्ते,

२ नवेम्बर २००९ :

समय: एव जीवन: |

समय: सर्वान समानातया पश्यति | 
सर्वेभ्य: २४ होरा: एव दत्तानि | केचन समयस्य समीचीन उपयोगेन संतृप्त जीवनं यापन्ति | केचन अन्यथा कृत्वा संतृप्तिम संतोषम च अन्विशन एव सन्ति |

वस्तुत: समय: एव अस्माकं संपत्ति: |
अन्यत सर्वं क्षणिक एव | कियत पर्यन्तं अस्मत समीपे अस्ति इति एव व्यत्यास: |

समयस्य सम्यक निवेश: कष्टकर कार्यम | अत: जीवनस्य सम्यक यापनम अपि कष्टकर कार्यम :-) |

वदतु संस्कृतं नित्यं |

Thursday, October 15, 2009

संस्कृत शब्द कोश

ॐ नमस्ते,

५ दिसम्बर २००९
cell phone -  जंगम यन्त्र

meeting - मेलनं
office - कार्यालयं
home - गृहम
travel to and fro -  गमनागमनं
expense - व्यय:


वदतु संस्कृतं नित्यं |


१८ अक्टोबर २००९ |
शिष्टाचार | [courtesies ]
good morning - शुभ प्रभात: |
hello - नमस्ते |
how are you ? - भवान (m) / भवती (f) कुशलं वा ?
i am fine - अहम् कुशली (m) / कुशलिनी (f) |
thank you - धन्यवाद: |
good afternoon - शुभ अपराह्न: |
good evening - शुभ सायं |
good night - शुभ रात्री |

वदतु संस्कृतं नित्यं |


१६ अक्टोबर २००९ |

नित्य उपयोगी शब्दानां संस्कृत आव्रुत्तिम आराब्धुम प्रयत्न: | [ an attempt to begin the sanskrit version of daily usage words ]

--  computer related words --
computer - सम्गणकम  [ sanganakam ]
broadband - विशाल वाहिनी |
internet - अंतर्जालम |
email - वि - पत्रं |  ?? electronic mail ~ विद्युत पत्रं ??
chat - जल्पनं |
messenger - सन्देश-दूत ?


अस्मिन प्रयत्ने भागम वोढुम  इच्छति चेत .. संदेशं स्थापयतु | author आवलीम मध्ये भवत:  नामं योजयामि |
तत् पश्चात भवता अपि अत्र संस्कृते लिखितुम  साध्यं भवति |

वदतु संस्कृतं नित्यं |

Sunday, October 11, 2009

नगर जीवनं

ॐ नमस्ते,

२४ अक्टोबर २००९
नित्य संचार: |
प्रति नित्यं प्रातः काले गृहात निर्गमिश्याम: |
मार्गे द्वि, त्रि, चतुष, षड् चक्र वाहनानि सन्चरन्त: सन्ति |
द्वि चक्र वाहनानि 'सर्प' आकारम् अनुसृत्य इतः ततः धावन्त: सन्ति | [two wheelers ]
त्रि चक्र वाहनानि अनिर्दिष्ट आकारम् अनुसृत्य वेगेन चलंत: सन्ति | [ three wheelers - autorickshaws ]
षड् चक्र वाहनानि दैत्य-रूपेण यथेच्छं चलंत: सन्ति | [ buses, trucks ]
चतुष चक्र वाहनानि सर्वेभ्य: शापित्वा चलंत: सन्ति | [ cars ]

सर्वे अपि यत् किमपि कार्यम निधाय धावन्त: सन्ति | कस्माय अपि समय: सावधान: नास्ति |
एतत  भाति यत् सर्वे युद्धं कर्तुम् उत्सना: स्यु: |

संचार नियमा: सन्ति एव विस्मर्तुम इति भाति |
भोः 'आधुनिक' नगरा | तुभ्यम नमस्ते |

वदतु संस्कृतं नित्यं |



११ अक्टोबर २००९

अद्य भानुवासर: | साधारणतया विराम: | किन्तु कार्यभार: कार्यालयं आगंतुम प्रेरयति |
नगर जीवनस्य उपलब्धय: अपि च अवरोधा: अपि सन्ति !
[ today is sunday. normally a holiday. but workload encourages to come to office.
urban life has advantages and disadvantages ]

बहव: नगरवासिन: सप्ताहान्त्य - पति पत्नी , माता पितर: भवन्त: सन्ति |
अत: कुटुंब परिसर: क्षीनीभावन अस्ति इत्यपि भाति !
[ many urbanites are becoming weekend-spouses, weekend-parents.
hence, the family environment appears to be depreciating ! ]



वदतु संस्कृतं नित्यं |

Thursday, October 8, 2009

परिसर:

ॐ नमस्ते,
१४ अक्टोबर २००९
अद्य आकाश: शुभ्र: अस्ति | [ today the sky is clear ]
उश्नान्श: अनुकूलकरम अस्ति | [ the temperature is comfortable ]
मन: विहारं कर्तुम् इच्छति | [ the mind wants to wander ]
बुधवासर: सप्ताहान्त्य: नास्ति इत्यत: कारणत: विहारं न साध्यं :-) | [ since wednesday is not a weekend, it is not possible ]

वदतु संस्कृतं नित्यं |


९ october २००९

अद्य आकाश: मेघ-आवृत: अस्ति |  [ today the sky is cloudy ]
सायंकाले वृष्टि: भवति इति दृश्यते | [ it appears it may rain in the evening ]


वदतु संस्कृतं नित्यं |

Friday, October 2, 2009

महात्मा गांधीजी

aum namaste,
3 october 2009:

ह्यः  महात्मा  गंधिज्य:  जन्मोत्सव:  आसीत् | yesterday was mahatma gandhiji's birth anniversary.
गांधीजी  परम  आदर्शवादी  आसीत्  | gandhiji was an idealistic person.

भारतस्य स्वातंत्र संग्रामे तस्य अपि महत पात्रं आसीत्  | his role was an important one in India's freedrom struggle.

वदतु संस्कृतं नित्यं |
नरसिंह |

Saturday, September 26, 2009

वदतु संस्कृतं नित्यं

ॐ नमस्ते |

7 october 2009:
अद्य सप्तम: दिनांक: |
बहव: वाणिज्य संस्था: २००९ वर्षस्य तृतीय त्रैमासिकस्य आर्थिक फलितांशान प्रचुरीकर्तुम प्रबन्धं कुर्वन्त: सन्ति |
[ many corporate organizations would be preparing to publish the 3rd quarter financial results ]
२०१० वर्ष: आर्थिक रीत्या उत्तम: भवेत् इति आशयाम :-)
[ let us hope that 2010 is a better year financially ]

वदतु संस्कृतं नित्यं |



28 september 2009:
अद्य इन्दुवासर: | विजय दशमी कृते कार्यालयस्य विराम: घोषित: आसीत् |
[ today is monday. a holiday was declared at the workplace on account of vijaya dashami. ]
किन्तु 'quarter-end' संबंधी कार्यम पूरयितुम 'office' गन्तव्यं आसीत् |
[ however i had to go to the office, on account of the quarter end work ]
बहवः विभागाः पिहिताः आसन |  कषाय चाय यन्त्रानि चलन्तः आसन ! |
[ many departments were closed. coffee tea machines were running ! ]
-- [ yantraani is wrongly transliterated - the 'Na' kaara is not coming up on the transliterator ]

वदतु संस्कृतं नित्यं |



27 september 2009:
अद्य आयुध पूजा |
[ today is aayudha pooja ]
भारत देशे -  यन्त्र वाहन आदीनाम द्वारा भगवन्तं पूजनं कुर्वन्ति |
[ in India, (people) offer prayers to the God through the machines, vehicles, etc ]
अनेन - कर्मसु कौशलम लभतु  च   समाजस्य रक्षणं भवतु - इति भगवन्तं प्रार्थयाम |
[ by this, we seek blessings from the God to give us the skill in our work, and protection for the entire society ]

वदतु संस्कृतं नित्यं |

26 september 2009:
इतः परं देवनागरी लिपीम् उपयोज्य लिखाम |
[ going forward, we will write using devanagari script ]
अद्य मंदवासर: | today is saturday |
बहूनां संस्थायाम विरामः | it is a holiday in many organizations |
अहम् सिफी broadband मुखेन अंतर्जालम अटन अस्मि | i am roaming the internet through sify broadband |

वदतु संस्कृतं नित्यं
नरसिंह |

Friday, September 18, 2009

sanskrit the simple

aum namaste,

there is a little sanskrit in every language spoken.
day - from 'diva'
night - from 'nakta'

mother - from 'matru'
father - from 'pitru'

a little effort, and we shall be able to speak in sanskrit !
vadatu sanskritam nityam :-)